________________
६५८
तत्त्वसंग्रहे प्रत्यक्षं स्वार्थस्य। अनुमेयादुत्पन्नं चेदं तत्प्रतिबद्धलिङ्गदर्शनद्वारायातं लिङ्गिज्ञानम्-इत्येवं सङ्केतविषयकथनेन समये प्रवर्तनात् । तथा हि-प्रत्यक्षेऽर्थाव्यभिचारनिबन्धन एवानेन प्रामाण्यव्यवहारः कृतः । अव्यभिचारश्चास्य कोऽन्यस्तदुत्पत्तेः ! यथोक्तम्
"अर्थस्यासम्भवेऽभावात् प्रत्यक्षेऽपि प्रमाणता। [G.776] प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम्"॥ ( ) इति । तस्माद् यथा साङ्घयस्तृणाग्रे करिसत्ताभावं व्यवस्यन्नपि शास्त्रश्रवणव्यामोहाद् भावव्यवहारमप्रवर्तयन् प्रवर्तते, तथायमपि लोकायतः। न च चोदनाजनिताया बुद्धेः प्रामाण्यं सिद्धम्, येनात्राप्यनुमानवत् प्रामाण्यव्यवहारः साध्यत इति स्यात्, तत्र प्रतिबन्धासिद्धेः प्रामाण्यस्यैव साध्यत्वादिति न समानम् ॥ २९४४ ॥ स्यादेतत्-भवतु नाम मतभेदः, स कस्मात् स्वत:प्रामाण्ये सति न युज्यते? इत्याह
विवादो भ्रान्तितो यस्मात् सा च निश्चयबाधिता।
निश्चिन्वन्तस्ततस्तत्त्वं विवदेरन्न वादिनः ॥२९४५ ॥ अनेन विवादस्य निश्चयविरुद्धभ्रान्तिकार्यस्योपलम्भान्निश्चयाभावसिद्धिमादर्शयन् अनुमानविरुद्धत्वं स्वत:प्रामाण्यप्रतिज्ञाया दर्शयति ॥ २९४५ ॥ अपरमपि निश्चयविरुद्धकार्योपलम्भमादर्शयति
स्वतः सर्वप्रमाणानां प्रामाण्यस्य विनिश्चये। न विसंवादभाक् कश्चिद् भवेनिश्चयवृत्तितः॥२९४६॥ अप्रमाणे प्रमाणत्वबुद्धया वृत्तो हि वञ्ज्यते।
स्वतःप्रामाण्यबोधात् तु विपरीतो न कश्चन ॥ २९४७॥ विसंवादो हि निश्चयविरुद्धाया भ्रान्ते: कार्यत्वेन प्रतीतः, स च स्वतःप्रामाण्याभ्युपगमे सति न प्राप्नोति; निश्चयेन तत्कारणस्य भ्रान्तेरपनीतत्वात्। विपरीत इति विसंवादभाक् ॥ २९४६-२९४७॥ नन्क्त्यिादिना परः प्रत्यवतिष्ठते
नन्वप्रमाणतो वृत्तो विसंवादं समश्नुते। निश्चयः परतस्तस्य बाधकात् . प्रत्ययान्मतः ॥२९४८॥ प्रमाणतः प्रवृत्तस्तु न विसंवादमश्नुते।
अस्यैव चेष्यतेऽस्माभिः स्वतःप्रामाण्यनिश्चयः ॥ २९४९ ॥ विसंवादो ह्यप्रमाणात् प्रवृत्तस्य भवति, तस्य चाप्रमाणस्य परतो निश्चयोऽभ्युपगत एव। यत् पुनः प्रमाणं न ततः प्रवत्तस्य विसंवादोऽस्ति । तस्यैव च स्वत:प्रामाण्यमिष्टमिति कथं स्वत:प्रामाण्यप्रतिज्ञाया अनुमानबाधा ! ॥ २९४८-२९४९॥ . [G.777] नाभिप्रायेत्यादिना प्रतिविधत्ते
नाभिप्रायापरिज्ञानादिदं ह्यत्र विवक्षितम्।
स्वतः सर्वप्रमाणानां प्रामाण्यस्य विनिश्चये ॥२९५०॥ १. विदं वा कं-पा० ।
.