________________
स्वतःप्रामाण्यपरीक्षा
६५७ तत्रैवान्यव्यवच्छेदः स्वात्मैवान्यत्र गम्यते ॥२९४१॥ चोदनाजनिताबुद्धिः प्रमाणमिति; नेह च।
प्रयोगोऽस्ति नबस्तेन नाप्रामाण्यनिवर्त्तनम्॥२९४२॥ भवतां विधिशब्दार्थवादिनामयं पक्ष:-यत्रैव वाक्ये नत्रः प्रयोगस्तत्रैवान्यव्यवच्छेदः प्रतीयते, अन्यत्र तु विधिरेवेति । न चात्र चोदनाजनितेत्यादौ साधनवाक्ये नञः प्रयोगोऽस्ति, तत् कथमनेनाप्रामाण्यव्यवच्छेदः? प्रतिपाद्यताम् !॥ २९४१-२९४२ ॥
यदुक्तम्-"चेत्कथं संशयादयः" (तत्त्व० २९२७) इति, तत्रादिशब्दोपात्तमर्थं
दर्शयति
किञ्च सर्वप्रमाणानां प्रामाण्यं निश्चितं यदि।
स्वत एव तदा कस्मात् मतभेदः प्रवादिनाम्॥२९४३॥ [G.775) यदि सर्वप्रमाणानां स्वत एव प्रामाण्यं भवेत्, तदा वादिनां प्रामाण्यविषये मतभेदो न स्यात् ॥ २९४३॥ स एवं कथं सिद्धः? इत्याह
येनैकैः स्वत एवेति प्रोच्चैर्नियम' उच्यते।
किञ्चित् स्वतोऽन्यतः किञ्चित् परैश्चानियमो मतः ॥ २९४४॥ एकैरिति मीमांसकैः। परैरिति बौद्धैः। तैः किञ्चित् स्वतःप्रमाणमिष्टम्, यथास्वसंवेदनप्रत्यक्षं योगिज्ञानम्, अर्थक्रियाज्ञानम्, अनुमानम्, अभ्यासवच्च प्रत्यक्षम्, तद्धि स्वत एव निश्चीयते; अभ्यासबलेनापहस्तितभ्रान्तिकारणत्वात्। किञ्चिदन्यतः, यथाविवादास्पदीभूतं चोदनाजनितं ज्ञानम्, प्रत्यक्षं चानपगतभ्रान्तिनिमित्तम्; अभ्यासार्थक्रियाज्ञानयोरनवाप्तत्वात्।
यद्येवम्; अनुमानादौ भवन्मतेन विवादो न प्राप्नोति, तस्य स्वत एव प्रमाणत्वात् । तथा हि-केचित् त्रिरूपलिङ्गहेतुकमनुमानमिच्छन्ति, केचिद् द्विरूपलिङ्गजम्, केचिदेकरूपलिङ्गसमुद्भवम्; लक्षणप्रणयनं चानर्थकम्; तथा लोकायतं प्रति तत्प्रामाण्यप्रतिपादनं न कर्त्तव्यम्, स्वत एव प्रामाण्यनिश्चयादिति समानम् ? नैष दोषः; यतोऽनुमानस्य तादात्म्यतदुत्पत्तिप्रतिबद्धलिङ्गनिश्चयादुत्पत्तेरन्तरेणाप्यर्थक्रियासंवादं पारम्पर्येण तथाविधवस्तुप्रतिबद्धजन्मतया तदर्थाव्यभिचारित्वं निश्चितमिति स्वत:प्रामाण्यमुच्यते। तदुत्पत्तिहेतुलिङ्गस्वरूपापरिज्ञानाद्वादिनोऽत्रांनुत्पन्न एवानुमाने परस्परं विप्रवदन्ते, न तूत्पन्ने; तत्स्वरूपादिनिश्चयात् । अत एवाचार्याः तदुत्पत्तिहेतुलिङ्गस्वरूपव्युत्पादनमेव कुर्वन्ति लक्षणे। कथं हि नाम विपरीतलिङ्गस्वरूपावधारणादनुमानोत्पत्तिर्भविष्यतीति !
यदपि लोकायतं प्रत्यनुमानस्य प्रामाण्यप्रतिपादनं कर्त्तव्यमिति चोद्यते, तदप्ययुक्तम्; न ह्यस्माभिरनुमानस्य प्रामाण्यं साध्यते, किं तर्हि ? व्यवहारः। तथा हि-मिथ्यार्थशोर श्रवणाद व्यामूढो लोकायत: सिद्धेऽप्यनुमानस्य प्रामाण्ये सायवन्न तद्व्यवहारं प्रवर्तयति. तस्य विषयोपदर्शनेन विषयी व्यवहार: साध्यते- यद्यत उत्पन्नं तत् तत्प्रापणशक्तियुक्तम्, यथा १. तत्किं-पा० गा०।
२. प्रोच्य-पा०. प्राच्ये-गा।।