SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ६५६. तत्त्वसंग्रह अत्रैव दृष्टान्तमाह यथा धूमादिलिङ्गेभ्यः पावकाद्यस्तितागतौ। तन्नास्तित्वव्यवच्छेदस्तत एवोपपद्यते॥२९३५॥ तन्नास्तित्वव्यवच्छेद इति। पावकादिनास्तित्वव्यवच्छेदः ॥ २९३५ ॥ अप्रमाण्यव्यवच्छेदः स्वत एवैवमिष्यताम्। अतो न साधनं युक्तमप्रामाण्यनिवृत्तये॥२९३६ ॥ अप्रमाणेत्यादिनोपसंहरति ॥ २९३६ ॥ अत्रैवोपचयहेतुमाह अप्रमाणद्वयाशङ्का यदि वर्तेत तत्र तु। प्रामाण्यनिश्चयो न स्याद् भ्रान्त्या तद्विषयीकृतेः॥२९३७॥ अप्रमाणद्वयं संशयविपर्यासात्मकम्॥ २९३७॥ यः सन्देहविपर्यासप्रत्ययैर्विषयीकृतः। स्थाणुवन्न हि तत्रास्ति तदा तद्रूपनिश्चयः॥२९३८॥ य इत्यादिना विरुद्धव्याप्तोपलब्धिप्रसङ्गमादर्शयन् स्ववचनविरोधमेव समर्थयते। निश्चयविरुद्धाभ्यां संशयविपर्यासाभ्यां तद्विषयीकृतस्य वस्तुनो व्याप्तत्वान्न तत्र निश्चयावकाशः ॥ २९३८॥ [G.774] बलिभुगित्यादिना अनुमानविरोधं दर्शयति; स्वपक्षसिद्धिं च बलिभुग्धूमहेतूत्थदोषादिप्रत्ययैर्यथा । स्थाणुतेजोऽप्रमाणादि परेभ्यो व्यवसीयते॥२९३९॥ प्रयोग:-ये सन्देहविपर्यासविषयीकृतात्मानस्ते परतोऽवसातव्यात्मतत्त्वाः, यथा स्थाण्वादयः। सन्देहविपर्यासविषयीकृतात्मकं च केषाञ्चित् प्रामाण्यमिति स्वभावहेतुः। बलिभुक् च धूमश्च हेतूत्थदोषादयश्चेति तथोक्ताः, तेषु प्रत्यया इति समासः । एभिश्च यथाक्रमं स्थाण्वादीनां सम्बन्धः । एतेन च हेतोर्व्याप्तिर्दर्शिता ॥ २९३९ ।। साम्प्रतं पक्षधर्मोपदर्शनासिद्धि परिहरन्नाह यत् सन्देहविपर्यासविषयत्वं गतं तथा। परतो निश्चयस्तस्य प्रमाणत्वस्य गम्यताम् ॥२९४०॥ यदिति यस्मात्। गतमिति निश्चितम्। कस्य? प्रमाणस्येति शेषः। तथा हिचोदनाजनिताया बुद्धेः प्रतिपादितं सन्देहविपर्यासविषयत्वम्। तथेति । यथा स्थाण्वादेः परतो निश्चयः । तस्येत्यादिना प्रमाणफलोपदर्शनम् ॥ २९४० ।। यदुक्तम्- "सिद्धे स्वत:प्रमाणत्वे साऽपवादनिवारणी" (तत्त्व० २९३१) इति, तन्न युक्तम्; आशङ्काया असम्भवादिति प्रतिपादितम्। इदानीं भवतु नामाप्रामाण्याशङ्कानिवृत्तये साधनप्रयोगः, तथापि भवन्मतेन सोऽपि न युक्त इति दर्शयन्नाह अयं च भवतां पक्षः– यत्र वाक्ये नञः श्रुतिः । १. अथैव-जै। २. ०धर्मोपदेशेना०-पा०, गा०।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy