________________
स्वतः प्रामाण्यपरीक्षा
६५५
तद्विषयमनिराकृत्य नात्मस्थितिमासादयति, उष्णस्पर्श इव शीतमिति कुतस्तेन विषयीकृते विषये समावेशो विपर्यासस्य ! ॥ २९२९॥
ततश्चेत्यादिना स्ववचनविरोधमपि दर्शयतिततश्च चोदनाजन्यमतिप्रामाण्यसिद्धये । दोषवर्जितहेतूत्थभावाद्' युक्तिरपार्थिका ॥ २९३०॥ हेतूत्थभावः=हेतूत्थत्वम् । आदिशब्देनानाप्ताप्रणीतोक्तिजन्यत्वाद्, बाधवर्जनादित्यादि गृह्यते । तथा हि
"चोदनांजनिता बुद्धिः प्रमाणं दोषवर्जितैः । कारणैर्जन्यमानत्वाल्लिङ्गाप्तोक्त्यक्षबुद्धिवत् ॥ तथानाप्ताप्रणीतोक्तिजन्यत्वाद् बाधवर्जनात्.।'
(श्री० वा०, चो० सू० १८४, १८५ ) इति । चोदनाजनिताया बुद्धेः प्रामाण्यसिद्धये सांधनं ब्रुवता परतः साधनात् प्रामाण्यनिश्चय उक्तो भवति । 'स्वतः सर्वप्रमाणानां प्रामाण्यम्" इति च वदता तन्निषेधश्चेति परस्परवच
64
नव्याघातः ॥ २९३० ॥
सिद्ध इत्यादिना परस्योत्तरमाशङ्कते -
सिद्धे
"
स्वतः प्रमाणत्वे साऽपवादनिवारिणी । यदीष्यते; तदप्येवं नाऽऽशङ्काया असम्भवात्॥ २९३१॥ • तावदेव हि साऽऽशङ्का यावन्नोदेति निश्चयः । निश्चये तद्गते तस्मिन्नप्रामाण्ये कुतो न्वियम् ॥ २९३२ ॥ येन तद्विनिवृत्त्यर्थं यत्नः सार्थकतां व्रजेत् । स्थाणौ निश्चिततादात्म्यो नान्यथात्वं हि मन्यते ॥ २९३३॥ अथापि स्यात्-नास्माभिश्चोदनाज़नितायाः धियः प्रामाण्यसिद्धये साधनमभिधीयते, किं तर्हि ? यत् तंत्र परेणाप्रामाण्यमासक्तं तन्निषेधाय ? इत्येतदपि न युक्तम्; [G.773] कुत: ? आशङ्काया असम्भवात् । उक्तं हि - " निश्चयारोपमनसोर्बाध्यबाधकभावतः " (तत्त्व० २९२९) इति, तत् कुतो निश्चये समुत्पन्ने सती प्रामाण्याशङ्का, येन तन्निवृत्तये भवतः साधनप्रयोगप्रयासः सफलो भवेत् ! अत्र दृष्टान्तमाह – स्थाणावित्यादि । निश्चितं तादात्म्यं स्थाणुत्वं येन प्रतिपत्रा स तथोक्तः। अन्यथात्वमिति वृक्षत्वपुरुषत्वादि ॥ २९३१ -२९३३ ॥
यद्येवम्, कथमप्रामाण्याशङ्का विना साधनप्रयोगं निर्वर्त्तयितुं शक्यते ? इत्याहयद्रूपनिश्चयो यस्माज्जायते यत्र वस्तुनि ।
तद्विपर्ययशङ्कायास्तत एव निवर्त्तनम् ॥ २९३४॥
यस्मिन् रूपे निश्चयो यद्रूपनिश्चयः । तद्विपर्ययशङ्काया इति । तद्रूपविपरीते स्वभावे शङ्काया इत्यर्थः। तत एवेति तद्रूपनिश्चयात् ॥ २९२४ "
२.० हेत्वर्थ० - जै० पुस्तके पाठा० ।
२. पा० पुस्तके नास्तिः शङ्कते - गा० ।