________________
६५४
तत्त्वसंग्रहे तथा चान्यत्र कुमारिलेन नित्यत्वमेकत्वं च बुद्धीनां वर्णितम् । यथोक्तम्
"बुद्धीनामपि चैतन्यस्वाभाव्यात् पुरुषस्य न । नित्यत्वमेकता चेष्टा भेदस्तु विषयाश्रयः"॥
(शो० वा०, श० नि० ४.४) इति। अत्रापि पक्षे प्रतिज्ञाया अभ्युपेतविरोधः, अनुमानविरोधोऽपि तथा क्षणिकत्वं बुद्धीनामभ्युपगतम्। यथोक्तं भाष्ये-"क्षणिका हि सा न बुद्ध्यन्तरकालमवस्थास्यते" (मी० द०,शा०भा० १.१५) इति। तथा-"न तत्क्षणमप्यास्ते" इत्यादिवचनात् स्ववचनविरोधोऽपि ॥ २९२४॥ युक्तिबाधां दर्शयति
. साधितक्षणभङ्गं हि सर्व वस्तु सविस्तरम्।
नित्यं च जन्यते नेति कारणापेक्षितास्य का॥ २९२५॥ नित्यत्वाभ्युपगमे कारणापेक्षिता वचनयुक्तेति दर्शयति-नित्यं चेत्यंदिना । जन्यस्य हि कारणान्तरापेक्षिता तत आत्मभावलिप्सया। यत्तु नित्यत्वादनुत्पाद्यं तस्यकापेक्षा! ॥ २९२५ ॥
अतश्च शक्यते वक्तुं स्वतः एव न वर्तते। .
पश्चात् प्रमा स्वकार्येषु नैरूप्याद् गगनाब्जवत्॥२९२६ ॥ अतश्चेत्यादिना प्रयोगरचनयाऽनुमानबाधामेव दर्शयति ॥ २९२६ ॥ अस्तु वेत्यादिनाऽभ्युपगम्याक्षणिकत्वं प्रत्यक्षादिबाधां दर्शयति___ अस्तु वाऽक्षणिकं ज्ञानं स्वतः एव प्रवर्तते।
स्वप्रामाण्यविनिश्चित्यै चेत् कथं संशयादयः॥ २९२७॥ यदि स्वत एव प्रमाणनिश्चयं जनयति, तदा प्रमाणे संशयादयो न प्राप्नुवन्ति । आदिशब्देन विपर्यासः, तत्पूर्वको विरोधः, विपरीता प्रवृत्तिः, परस्परपराहतलक्षणप्रणयनम्, विसंवादश्च गृह्यते। ततश्च संशयादेः प्रमाणानन्तरं निश्चयविपरीताकारस्य संवेदनात् प्रत्यक्षत एव निश्चयाभावः सिद्धः; घटाभाव इव तद्विविक्तप्रदेशोपलम्भात्। ततश्च तत्सद्भावप्रतिज्ञायाः प्रत्यक्षविरोध: ॥ २९२७॥ प्रामाण्येत्यादिना प्रत्यक्षे विरोधमेव समर्थयते
प्रामाण्यनिश्चयो यस्मात् तत्र तन्मात्रभाविकः।
तस्मिन् जाते च सन्देहविपर्यासावनास्पदौ ॥ २९२८ ॥ [G.772] तस्मिन्निति। प्रामाण्यनिश्चये ॥ २९२८॥ कस्मादनास्पदौ ? इत्याह
निश्चायारोपमनसोर्बाध्यबाधकभावतः ।
समारोपविवेके हि निश्चयो वर्ततेऽखिलः॥ २९२९॥ एतदेव कुतः? इत्याह-समारोफेत्यादि। निश्चयो हि समारोपविपरीताकारत्वात् १-१. पुरुषस्यातो-पा०, गा० ।
२. तथा हि-गा। ३. प्रवचनविरोधोऽपि-पा०, गा०। ४. न युक्तेति-पा०, गा०/
५. तत्किं-पा०, गा०।