________________
स्वतःप्रामाण्यपरीक्षा
६५३ यत् साधनमुपन्यस्तं बौद्धादिना, तन्न चोदनां बाधितुं क्षमम्, कुतः? औत्सर्गिकप्रमाणत्वात्।
औत्सर्गिकं प्रमाणं प्रामाण्यं यस्य तत्तथोक्तं तद्भातस्तत्त्वम्॥ २९१८ ॥ [G.770] अत्राभिधीयतइत्यादिना-"आत्मलाभे हि भावानाम्" (तत्त्व० २८४७) इत्यारभ्य यथाक्रमं दूषणं वक्तुमारभते
अत्राभिधीयते येषां ज्ञानानां स्थितिरिष्यते।
तेषामेव तु नन्वेषा व्यवस्था सनिबन्धना ॥२९१९॥. सनिबन्धनेति वस्त्वधिष्ठाना; असतो व्यापारायोगादिति भावः ॥ २९१९ ॥ का पुनरसौ व्यवस्था? इत्याह
आत्मलाभे घटादीनां कारणापेक्षितेष्यते।
लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव तु॥२९२०।। अथ ज्ञानेऽपि कस्मान्न युज्यते? इत्याह
यत्तु ज्ञानं त्वयापीष्टं . जन्मानन्तरमस्थिरम्। - लब्धात्मनोऽसतः पश्चाद् व्यापारस्तस्य कीदृशः?॥ २९२१॥ असतः कीदृशो व्यापार इति। नैव कश्चित्, सर्वसामर्थ्यशून्यत्वादसत्त्वस्येति भावः । सत्त्वेऽपि वा निरीहत्वात् सर्वभावानामिति नैव व्यापारः सिध्येत्। न च ज्ञानस्य किञ्चित् कार्यमस्ति यत्र व्याप्रियेत । स्वार्थपरिच्छेदात्मकमस्तीति चेत् ? न; ज्ञानपर्यायत्वादस्यात्मानमेव करोतीति सुव्याहृतमेतत् । प्रमाणमेतदिति निश्चयजननं स्वकार्यमिति चेत् ? न; क्वचिदनिश्चयाद्, विपर्ययदर्शनाच्च। अनेनात्रापि प्रतिज्ञार्थे प्रत्यक्षादिविरोधः प्रतिपादितः । तथा हि-उपलब्धिलक्षणप्राप्तस्यानुपलम्भेनान्योपलम्भात्मना प्रत्यक्षेणासतो व्यापाराभावो निश्चितः । नैरूप्याच्च वियदम्भोजवदनुमानतोऽपि सिद्धः । त्वयापीष्टमित्यनेनस्ववचनविरोधं चोद्भावयति॥२९२१॥ तमेव व्यापार इत्यादिना श्लोकद्वयेन दर्शयति
.. "व्यापारः कारणानां हि दृष्टो जन्मातिरेकतः। .. . प्रमाणेऽपि तथा मा भूदिति जन्म विवक्ष्यते॥२९२२॥
न हि तत्क्षणमप्यास्ते जायते वाऽप्रमात्मकम्। . . येनार्थग्रहणे पश्चाद् व्याप्रियेतेन्द्रियादिवत्"॥२९२३॥
___ (थो० वा०, प्र० सू० ५४-५५) तथा हि-"सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम्" (मी० द० १. १.४) इत्यत्र सूत्रे जन्मग्रहणस्य साफल्यं प्रतिपादयितुं व्यापारइत्याधुक्तं कुमारिलेन । ज्ञायमानाया एव बुद्धेः प्रामाण्यं यथा स्यादिति प्रतिपादनार्थं जन्मग्रहणं कृतमिति। किं कारणम्? इत्याह-न हीत्यादि । तदिति ज्ञानम् ॥ २९२२-२९२३ ॥ [G.771] अथापीत्यादिना परस्योत्तरमाशङ्कते
अथाप्यक्षणिकं ज्ञानं नित्यं चाभ्युपगम्यते।
__अभ्युपेतविरोधोऽयमेवं युक्त्यावबाधनम्॥२९२४॥ १. ज्ञाताना-पा०, गा०।
२. ० भावानां-पा० गा०।
३. जायमानाया-पा०।