________________
६५२
तत्त्वसंग्रहे
पूर्वेणेति अप्रमाणेन। आत्त इति गृहीतः। तथात्ववदिति वैधHदृष्टान्तः । एतदुक्तं भवति–यथा प्रमाणेन तथात्वमात्तं न तथा मिथ्यात्वप्रमाणेनेति' न समानम्। तथा हिउत्पत्त्यवस्थमेव प्रमाणं प्रमाणमिति मीयते, [G.769] न त्वप्रमाणमप्रमाणमिति; तस्य नित्यं प्रमाणवदवभासनादिति भावः। तदित्यादिना परतोऽप्रामाण्यमुपसंहरति। यद्वा दुष्टकारणे धीरिति सम्बन्धः ॥ २५१३॥
तावता चैव मिथ्यात्वं गृह्यते नान्यहेतुकम्।
उत्पत्त्यवस्थं चैवेदं प्रमाणमिति मीयते॥२९१४॥ तावता चैवेति। अन्यथा भावधिया, दुष्टकारणधिया च । स्यादेतत्-यद्येतयोर्धियोः सम्यक्त्वं गृहीतं भवेत्, तदाऽऽभ्यां मिथ्यात्वं गृह्येत, तयोश्च सम्यक्त्वग्रहणाय प्रमाणान्तरापेक्षायामनवस्था स्यात् ? इत्यत आह-उत्पत्त्यवस्थमित्यादि । इदमिति अर्थान्यथाज्ञानम्, दुष्टकारणज्ञानं च। तेन नानवस्थेति भावः ॥ २९१४ ॥
यदुक्तं बौद्धदिना-"मिथ्यार्थं वैदिकं वचो वाक्यत्वाद्, अग्नि: शीत'इत्यादि पुरुषवाक्यवत्" इत्यादि साधनम्, तस्यानेकान्तिकतेति दर्शयन्नाह
अतो यत्रापि मिथ्यात्वं परेभ्यः प्रतिपाद्यते। .
तत्राप्येतद् द्वयं वाच्यं न तु साधर्म्यमात्रकम् ॥२९१५॥ . यत्रापति चोदनादौ । एतद् द्वंयमिति । अन्यथात्वज्ञानम्, दुष्टकारणज्ञानं च। साधर्म्य मात्रकमिति। असत्यार्थेन पुंवाक्येन वाक्यत्वादिना तुल्यत्वम् ॥ २९१५ ॥ कस्मान्न वाच्यम् ? इत्यत्रोपपत्तिमाह
तत्राप्रमाणसाधर्म्यमानं यत्किञ्चिदाश्रिताः। सर्वं प्रमाणमिथ्यात्वं साधयन्त्यविपश्चितः ॥ २९१६॥
तेषामात्मवधायैव तादृक्साधनकल्पनम्। यद्यप्रमाणसाधर्म्यमात्रेणाप्रमाणं स्यात्, तदा सर्वत्र प्रमाणानामप्रामाण्यप्रसङ्गः । शक्यते हि सर्वत्र वस्तुत्वादिना साधर्म्य वक्तुमिति संक्षेपार्थः। कथमात्मवधाय भवति? इत्याह
उत्पद्यते परस्यापि प्रतिबिम्बेन तादृशम्॥२९१७॥ परस्यापति मीमांसकस्य। प्रतिबिम्बेनेति । यथा बिम्बादनन्तरं प्रतिबिम्बमुत्पद्यते; तथा बौद्धोपन्यस्तसाधनानन्तरं प्रतिसाधनं मीमांसकस्योदेतीत्यर्थः । तथा हि शक्यमिदमभिधातुम्-"अमृषा वैदिकं वचः,वचनत्वादिभ्यः,अग्निरुष्णो भास्वर इत्यादिपुरुषवचनवत्' इति ।
तेन च पतिषिद्धत्वादयथाभूतसाधनम्।
नौत्सर्गिकप्रमाणत्वाच्चोदनां बाधितुं क्षमम्।। २९१८॥ तैनैवंविधेन प्रतिप्रमाणेन प्रतिषिद्धत्वात्' व्याहतत्वात्, अयथाभूता चोदनेत्यस्यार्थस्य
१. मिथ्यात्वमप्रमा०-- गा०। ३. अथान्यथाo-जै। ५. प्रतिबिद्धत्वात्-जै०।
२-२. उत्पत्यवस्थमेवेदं-पा०, गा० । ४. चोदना-पा०, गा०। .