________________
स्वतःप्रामाण्यपरीक्षा
६५१ नन प्रमाणमित्येवं प्रत्यक्षादि न गृह्यते।
न चेत्थमगृहीतेन व्यवहारोऽवकल्प्यते?॥२९०८॥ यदि प्रमाणानां प्रमाणान्तरापेक्षा न स्यात्, तदा प्रमाणमित्येषु प्रत्यक्षादिषु निश्चयो न स्यात्, ततश्च सर्वव्यवहारोच्छेदप्रसङ्गः? ॥ २९०८॥ प्रमाणं ग्रहणादित्यादिना प्रतिविधत्ते--
प्रमाणं ग्रहणात्' पूर्वं स्वरूपेण प्रतिष्ठितम्।
निरपेक्षं च तत्स्वार्थे प्रमिते मीयते परैः॥२९०९॥ एतदुक्तं भवति यद्यपि प्रमाणं स्वरूपनिश्चयं प्रति प्रमाणान्तरमपेक्षते; तथापि न व्यवहारोच्छेदः; अर्थपरिच्छेदं प्रति प्रमाणान्तरनिरपेक्षत्वात्। अर्थश्चेत् परिच्छिन्नः, तदा तावतैव सर्वव्यवहारपरिसमाप्तिरिति किं स्वरूपं प्रति निश्चयानिश्चयनिरूपणया, अर्थनिश्चयार्थत्वादस्या इति संक्षेपार्थः।
अवयवार्थस्तूच्यते-ग्रहणात् [G.768] पूर्वमिति। प्रमाणमेतदित्यतो निश्चयात् पूर्वमित्यर्थः । स्वरूपेणेति अर्थपरिच्छेदात्मना। निरपेक्षमिति। स्वार्थपरिच्छेदं प्रति प्रमाणान्तरं नापेक्षत इत्यर्थः। तत्स्वार्थे प्रमिते निश्चिते तूत्तरकालमनुमानादिभिः प्रमाणैः प्रमीयते। यथोक्तम्-"न ह्यज्ञातेऽर्थे कश्चिद् बुद्धिमुपलभते। ज्ञाते त्वनुमानादवगच्छति" (मी० द० शा० भा० १.१.५) इति ॥ २९०९॥
स्यादेतत्-अविदितायां बुद्धौ स्वार्थपरिच्छेद एव न युक्तः, यथोक्तम्-"अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति" (तत्त्व० २०७३) इत्याशङ्कयाह
यथा चाविदितैरेव चक्षुरादिभिरिन्द्रियैः। गृह्यन्ते विषयाः सर्वे प्रमाणैरपि ते तथा॥२९१०॥
तेनात्र ज्ञायमानत्वं प्रामाण्ये नोपयुज्यते। ' विषयानुभवोऽप्यस्मादज्ञातादेव लभ्यते॥२९११॥ सुगमम्।। २९१०-२९११॥ यद्येवम्, ,अप्रमाणमप्यनया नीत्या स्वत एव प्रसज्यते? इत्याशङ्कयाह.. 'अप्रमाणं पुनः स्वार्थे प्रमाणमिव हि स्थितम्।
मिथ्यात्वं तस्य गृह्येत न प्रमाणान्तराद् ऋते॥२९१२॥ अप्रमाणं हि प्रमाणवदाभातीति न तत्सत्तामात्रेण स्वार्थ परिच्छिनत्ति, तस्मान्मिथ्यात्वम् मिथ्यार्थपरिच्छेदित्वमस्य प्रमाणान्तरं विना ग्रहीतुं न शक्यत इति परतस्तद् व्यवस्थाप्यते ॥ २९१२॥
। ननु च प्रमाणेऽपि तुल्यम्, तथा हि-तदपि स्वार्थे क्वचिदप्रमाणमिवाभाति? इत्यत आह
नार्थस्यान्यथाभाव: पूर्वेणात्तस्तथात्ववत्।
तदत्राप्यन्यथाभावे धीर्यद्वा दुष्टकारणे॥२९१३॥ १-१. प्रामाण्यग्रहणात्- इत्यपि पाठः। २-२. स्वकार्ये च-इत्यपि पाठः। ३. प्रमाणम०-०, पा०।