________________
६५०
तत्त्वसंग्रहे तथा हि-एकस्मिन्नपि शब्दे बहुभिः श्रूयमाणे श्रोत्रज्ञानान्तरप्रवृत्तेरस्याः श्रोत्रधियः प्रमाणान्तरसङ्गत्यपेक्षया सम्यक्त्वमवसीयते। तजन्यविज्ञानान्तरसङ्गरिति। वेदजन्यविज्ञानान्तरसम्बन्धात्। द्वयोरपति। श्रोत्रबुद्धि-वेदार्थबुद्ध्योः । एतदुक्तं भवति–'प्रमाणान्तरसङ्गतिनिरपेक्षत्वात्' इत्यत्र साधनान्तरजन्यं प्रमाणान्तरं विवक्षितम्, न त्वेकसाधनसाध्यम्; तेन हेतोः सविशेषणत्वान्न साधनविकलता दृष्टान्तस्येति भावः । हेत्वन्तरकृतज्ञानसंवादइति। हेत्वन्तरेण कृतं च तत् ज्ञानं चेति तथोक्तम्, तस्य संवाद इति विग्रहः ॥ २९००-२९०१॥
अथैकसाधनसाध्यप्रमाणान्तरप्रवृत्तिमात्रेणापि परतः प्रामाण्यमिष्टम्, तदा सिद्धसाध्यता? इति मन्यमान आह
यथा त्वेकेन्द्रियाधीनविज्ञानान्तरसङ्गतिः।
प्रत्यक्षे कारणं क्लृप्ता तथा वेदेऽपि कथ्यताम्॥२९०२॥ कारणं क्लृप्त।"श्रोत्रज्ञानान्तरेणास्याः सम्बन्धाच्चेत् प्रमाणता" (तत्त्व० २९००) इति वचनात्॥ २९०२॥ कथं वेदे कथनीयम्? इत्यत आह
एकेनैव हि वाक्येन 'देशकालनरादिषु। . लभ्यमानेऽर्थसंवादे न मृग्यं कारणान्तरम्॥२९०३॥ तस्माद् दृढं यदुत्पत्रं विज्ञानं न विसंवदेत्। .
देशान्तरादिविज्ञानैः प्रमाणं तदसंशयम्॥२९०४॥ [G.767] दृढमिति। संशयविपर्यासरहितत्वात्। देशान्तरादिविज्ञानैरिति । आदिशब्देन नरान्तरादिविज्ञानपरिग्रहः॥२९०३-२९०४॥ . न चासिद्धतास्य हेतोरिति दर्शयन्नाह
साध्या न चानुमानेन शब्दादीनां प्रमाणता।
प्रत्यक्षस्यापि सा मा भूत् तत्साध्यैवाविशेषतः ॥ २९०५॥ न तावत् प्रत्यक्षेण साध्या; वेदार्थस्यांतीन्द्रियत्वादिति भावः । नाप्यनुमानेन; अतिप्रसङ्गात्। शब्दादीनमिति। वैदिकानामिति शेषः । प्रकरणाद् वा विशेषगतिः ॥ २९०५ ॥ स्यादेतत्-इष्यत एव प्रत्यक्षस्याप्यनुमानसाध्या प्रमाणता? इत्याह
प्रमाणानां प्रमाणत्वं येन चान्येन साध्यते। तस्याप्यन्येन साध्यत्वादनवस्था प्रसज्यते॥२९०६॥ अन्येनासाधिता चेत् स्यात् साधकस्य प्रमाणता।
साध्यानामपि सा सिद्धा तद्वदेव भवेत् ततः॥२९०७॥ प्रत्यक्षवत् तस्याप्यनुमानस्यापरेणानुमानेन प्रमाणतायां साध्यायामनवस्था स्यात् । अथानुमानाख्यस्य साधनस्य प्रामाण्यं नान्येन साध्यते, तदा साध्यस्यापि प्रत्यक्षादेः सा साध्या मा भूद्; अविशेषात् ॥ २९०६-२९०७॥
नन्क्त्यिादिना बौद्धो हेत्वसिद्धिमेव समर्थयते१. देशकालान्तरादिषु-गा।