________________
६४९
स्वतःप्रामाण्यपरीक्षा वेदार्थेऽन्यप्रमाणैर्या सर्वकालमसङ्गतिः।
तयैवास्य • प्रमाणत्वमनुवादत्वमन्यथा॥२८९६॥ वेदार्थ:='अग्रिहोत्रात् स्वर्गो भवति' इत्यादिः। अन्यप्रमाणैरेति वेदादन्यैः प्रत्यक्षादिभिः । सङ्गतिः एकविषयतया सम्बन्धः, तत्प्रतिषेधोऽसङ्गतिः । तथैवेत असङ्गत्या। अस्येति वेदस्य। अथ प्रवृत्तिरिष्टेति पक्षः, तदा गृहीतग्राहित्वादुत्तरकालभाविनो ज्ञानस्य न प्रामाण्यं प्राप्नोतीति दर्शयन्नाह-अनुवादत्वमन्यति। अन्यथायद्यन्यैरपि प्रमाणैरवगतेऽर्थे प्रमाणस्य प्रवृत्तिरिष्येत', तदा तस्यान्यप्रकाशितार्थप्रकाशकत्वादनुवादत्वमिति स्मृत्यादिवदप्रामाण्यप्रसङ्गः। तस्माद् यत् प्रमाणम्, न तत् प्रमाणान्तरसङ्गतिमपेक्षत इति सर्वस्यैव प्रमाणस्य स्वतः प्रामाण्यं प्रसिद्धमिति भावः ॥ २८९६॥ एतदेव दर्शयति- .
अन्यस्यापि प्रमाणत्वे सङ्गति व कारणम्।
तुल्यार्थानां विकल्पेन ह्येकस्यैव प्रमाणता ॥२८९७॥ वेदादन्यस्यपि प्रत्यक्षादेः। तुल्यार्थानमिति एकविषयप्रवृत्तानाम्। एकस्यैवेति प्रथमस्य; अन्येषामनुवादत्वात्। न च तेभ्य उत्तरकालभाविभ्यः प्रत्ययेभ्यः प्रथमस्य प्रामाण्यं युक्तम्; तेषां गृहीतविषयत्वेन स्वयमेवाप्रमाणत्वात् ॥ २८९७ ।।
ननु च दृश्यत एव सन्तमसादिप्रदेशे प्रथमज्ञानगृहीतस्याप्यर्थस्योत्तरोत्तरतः प्रमाणात् परिच्छेदः स्पष्टालोकावस्थायाम् ? इत्याशङ्कयाह
यत्रापि स्यात् परिच्छेदः प्रमाणैरुत्तरैः पुनः। .: नूनं तत्रापि पूर्वेण नार्थः सोऽवधृतः स्फुटम्॥२८९८॥ पूर्वस्य ज्ञानस्यानवधृतार्थत्वादप्रामाण्यमेवेति भावः ॥२८९८॥
अपि च-यदि प्रमाणान्तरसङ्गत्या प्रामाण्यम्, एवं सति सकृजातविनष्टार्थविषयस्य ज्ञानस्य श्रौत्रधियश्च प्रामाण्यं न प्राप्नोति; तद्विषये प्रमाणान्तराप्रवृत्तेरिति दर्शयति.. सकृजातविनष्टे च भवेन्नार्थे प्रमाणता। . .
श्रौत्रधीश्चाप्रमाणं स्यानेत्रादिभिरसङ्गता॥२८९९॥ [G.766] नेत्रादिभिरसङ्गतेति । एकविषयत्वेनासम्बन्धात्। प्रयोगः-यत् प्रमाणान्तरसङ्गतिनिरपेक्षं तत् स्वत एव प्रमाणम्, यथा श्रोत्रज्ञानं सकृज्जातं विनष्टविषयं च विज्ञानम्। . प्रमाणान्तरसङ्गतिनिरपेक्षं च वेदार्थविषयं ज्ञानमिति स्वभावहेतुः ॥ २८९९ ॥ श्रोत्यादिना दृष्टान्तस्य साधनविकलतामाशङ्कते
श्रोत्रज्ञानान्तरेणास्याः सम्बन्धाच्चेत् प्रमाणता? सिद्धा वेदेऽपीत्यादिना प्रतिविधत्ते
सिद्धा वेदेऽपि तजन्यविज्ञानान्तरसङ्गतेः?॥२९००॥ साधनान्तरजन्या तु बुद्धिर्नास्ति द्वयोरपि।
हेत्वन्तरकृतज्ञानसंवादोऽतो न वाञ्छ्यते॥ २९०१॥ . १. ०रिष्यते-पा०, गा०।
२-२. पूर्वस्याज्ञान- जै०। ३. श्रौत्रा धी०-पा०, गा०।