SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ६४८ तत्त्वसंग्रहे दोषाभावो गुणेभ्यश्चेदाप्तवाक्येषु गम्यते। अनवस्था भवेत् सैव गुणवत्त्वानुगामिनः ?॥ २८९०॥ तथा हि-दोषाभावो गुणपरिज्ञानान्निश्चयः, गुणपरिज्ञानस्य च पुनरपि दोषाभावात् प्रामाण्यमवसेयम्, तत्रापि दोषाभावो गुणेभ्यः परिज्ञेयः, पुनस्तत्राप्येवम्-इत्येवं सैव सर्वव्यवस्थालोपिन्यनवस्था तदवस्था॥ २८९० ॥ [G.764] नैष दोष इत्यादिना प्रतिविधत्ते नैष दोषः; गुणज्ञानं तदा नैव ह्यपेक्ष्यते। ज्ञायमानतया नैव गुणास्तत्रोपकारिणः ॥२८९१॥ सत्तामात्रेण ते सर्वे दोषव्यावर्तनक्षमाः। नृदोषविषयं ज्ञानं येषु सत्सु न जायते ॥ २८९२॥ तेषु सत्स्विति गुणेषु ॥ २८९१-२८९२ ॥ यदि नाम न जायते ततः किम्? इत्यत आह दौषैश्चाज्ञायमानत्वान्न प्रामाण्यमपोद्यते। अनपोदितसिद्धं च तदिहापि स्वतः स्थितम्॥ २८९३॥ . न प्रामाण्यमपोद्यत इति सम्बन्धः । कस्मात् ? अज्ञायमानत्वात्। गुणनिषिद्धत्वाद् दोषाणामभावादेवाज्ञायमानत्वम्। अनपोदितसिद्धं चेत। अनपोदितत्वात् सिद्धम उत्सर्गस्यापवादविरहे निसर्गसिद्धत्वात्। इहापीति।आप्तवाक्ये न केवलमपौरुषेय इत्यपिशब्दः ॥ २८९३ ॥ ननु च यदि नाम क्वचित् पौरुषेये वाक्ये दोषा न ज्ञायन्ते, तथापि सम्भाव्यन्त एव; तेषां तदाश्रितत्वात्। ततश्च यथा गुणा: सत्तामात्रेण दोषव्यावर्त्तनक्षमाः, तथा दोषा अपि गुणव्यावर्त्तनसमर्था इति तत्किमुच्यते-'दोषैश्चाज्ञायमानत्वान्न प्रामाण्यमपोद्यते' इति? एतदाशङ्कयाह दोषाः सन्ति न सन्तीति पौरुषेये तु शक्यते। वेदे कर्तुरभावाच्च दोषाशझैव नास्ति नः॥ २८९४ ॥ अतो यदनपेक्षत्वाद् वेदे प्रामाण्यमुच्यते। तदाप्तेन प्रणीतेऽपि सुतरां सिध्यति स्वतः॥ २८९५ ॥ . एवं मन्यते-न ह्यस्मभिरवश्यं पौरुषेयवचनस्य प्रामाण्यं समर्थनीयम्, किन्तु सर्व एवायमारम्भो वेदस्य प्रामाण्यसिद्धये। तत्र यदि नाम पौरुषेयस्य वचनस्याप्रामाण्यं जातम्, तथापि न काचित् क्षतिर्वेदस्य, दोषाशङ्काया अभावादेव प्रामाण्यसिद्धरित्यनपेक्षत्वादुच्यत इति । यथोक्तं भाष्ये-"तस्मात् प्रमाणम्; अनपेक्षत्वात्। नैवं सति प्रत्ययान्तरमपेक्षितव्यं पुरुषान्तरं वापि। अयम्प्रत्ययो ह्यसौ' (मी० द०, शा० भा० १.१५) इति ।।२८९४-२८९५ ॥ __अपि च-किं प्रमाणस्य प्रमाणान्तरपरिच्छिन्नेऽर्थे प्रवृत्तिरिष्टा, आहोस्विन्नेति पक्षद्वयम्। [G.765] तत्र यदि तावन्नेष्टेति द्वितीयः पक्षः, तदा वेदस्य स्वत एव प्रामाण्यं सिद्धमिति दर्शयति१. अनापोदित०-०। २. पा०, गा० पुस्तकयो स्ति।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy