________________
६४७
स्वतःप्रामाण्यपरीक्षा त्रिसत्यताऽपि देवानामत एवाभिधीयते॥२८८३॥ तेन स्वतःप्रमाणत्वे नानवस्थोभयोरपि।
प्रमाणत्वाप्रमाणत्वे यथायोगमतः स्थिते।। २८८४॥ किञ्च-यदि नाम प्रत्यक्षादेः परतःप्रमाण्यं सिध्यति,न तु शाब्दस्य; तथाप्यस्मत्पक्षसिद्धिरेव। तथा हि-सर्वोऽयमारम्भश्चोदनायाः प्रामाण्यप्रतिपादनफलः, शब्दस्य च प्रमाणस्य स्वतः प्रामाण्ये सिद्धे चोदनायाः प्रामाण्यमिति किमस्माकमन्येषां स्वतःप्रामाण्यप्रसिद्धये प्रयासेन?-इति मन्यमानः शाब्दस्य प्रमाणस्य स्वतः प्रामाण्यं प्रतिपादयन्नाह
नित्यमाप्तप्रणीतं वा वाक्यं यच्चावधार्यते। श्रोत्रुच्चारयितृभ्यां तन्न मनागपि दूष्यते ॥२८८५॥ ये विद्यागुरवस्तत्र सहाध्यायिन एव च। विनाशं वारयन्तस्ते तादृशां पालनक्षमाः॥२८८६॥ अतो गुणनिषिद्धैर्वा दोषैर्वाक्यं न दूष्यते।
यद्वा कर्तुरभावे ते न स्युर्दोषा निराश्रयाः॥२८८७॥ [G.763] द्विविधं हि शाब्दं ज्ञानं प्रमाणम्-नित्यवाक्यजनितम्, आप्तप्रणीतवाक्यहेतुकं च। तत्रैतस्मिन् द्विविधेऽपि कारणस्यादुष्टत्वं प्रतिपादयति । तथा हि-यत् तावन्नित्यं तस्य श्रोतृवक्तृकृतो न दोषः सम्भवति; नित्यं विद्यागुरुभिरध्यापकैरध्येतृभिश्च पााल्यमानत्वात्। यदप्याप्तोक्तम्; तत्र गुणैः कृपादिभिर्दोषाणां निषिद्धत्वात्। प्रकारान्तरेण नित्यस्य वाक्यस्यादुष्टत्वं प्रतिपादयन्नाह-यद्वेत्यादि । दोषा हि रागादयः पुरुषधर्मत्वात् कर्तारमेवाश्रिताः। ते कथमाश्रयस्य कर्तुनिवृत्तावपौरुषेयेषु वाक्येष्ववतिष्ठेरन्; तदनाश्रितत्वप्रसङ्गात् ! एष ह्याश्रितधर्मो यदाश्रयानुविधायित्वम्॥ २८८५-२८८७ ॥
ननु चाप्तवाक्यस्य गुणैर्दोषाणां निराकरणात् प्रामाण्याभ्युपगमे गुणेभ्यः प्रामाण्यमभ्युपगतं स्यात्, ततश्चानवस्थादोषोऽत्रापि सम्भवेत् ? इत्याशङ्कयाह
'तत्राप्तोक्तेयं दृष्टं दोषाभावगुणात्मकम्। गुणेभ्यश्च प्रमाणत्वं यथा नास्ति तथोदितम् ॥ २८८८॥ गुणवत्त्वादतो वक्तुर्न दोषास्तन्निराकृताः।
स्वतो वाक्यं प्रमाणं च दोषाभावोपलक्षितम् ॥२८८९॥ दोषाभावगुणावात्मा स्वभावो यस्य द्वयस्य तत् तथोक्तम्। तथोदितमिति। "एवं यदि गुणाधीना प्रत्यक्षादिप्रमाणता" (तत्त्व० २८५५) इत्यादिना । तन्निराकृताइति गुणनिराकृताः । दोषाभावोपलक्षितमिति । दोषरहितगुणानां दोषनिषेधमात्र एव व्यापारो न प्रामाण्याधीन इत्यभिप्रायः ॥ २८८८-२८८९॥
ननु च दोषाभावनिश्चयात् प्रामाण्येऽभ्युपगम्यमानेऽप्यनवस्थैवेति परमतमाशङ्कयनाह
१. पा० पुस्तके नास्ति। ३. तदाऽनाश्रित-पा०, गा०॥
२. कथमाश्रय-पा०॥ ४. ०श्वावस्था०-पा०, गा०॥