SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ६४६ तत्त्वसंग्रहे दूरदेशव्यवस्थानादसम्यग्दर्शने . भवेत्। अन्याशङ्का क्वचित् तत्र समीपगतिमात्रकम्॥ २८७६ ॥ अपवादावधिः; कालनरावस्थान्तरे न तु। व्यपेक्षा विद्यते तस्मिन् मृगतृष्णादिबुद्धिवत्॥ २८७७॥ अन्याशङ्केति। अन्यस्य जलादेराशङ्का अन्याशङ्का । क्वचिदिति मरीचिकादौ। समीपगतिमात्रकमिति। अपवादावधिरिति सम्बन्धः । एतदुक्तं भवति-यत्र देशदूरत्वमेव भ्रान्तिनिमित्तं सम्भवति, तत्र समीपगमनमात्रमेवापेक्षणीयं बाधकस्य भावाभावनिश्चयाय, न तु तत्र कालादौ व्यपेक्षा कार्या; तत्र तस्याभ्रान्तिनिमित्तत्वात्। अत्रोदाहरणमाह-मृगतृष्णादिबुद्धिवदिति। मृगतृष्णादिबुद्धि:= मरीचिकादौ जलादिभ्रान्तिः ।- आदिशब्देनाल्पीयसि महत्त्वबुद्धिः, तथा दूरे महति चाल्पबुद्धिरित्येवमादि ग्रहीतव्यम्। न हि तत्र समीपगतानां कालाद्यपेक्षा सम्भवति। एवं कालादिष्वपि यत्र यस्यैव भ्रान्तिनिमित्तत्वं सम्भवति तस्यैवापेक्षा कार्या, नान्यस्येत्येतदुदाहरणेन दर्शयति ॥ २८७६-२८७७ ॥ . तत्र कालविशेषमधिकृत्याह एवं सन्तमसे काले यो गवाश्वादिसंशयः। भ्रान्ति निर्णयस्तत्र प्रकाशीभवनावधिः ॥ २८७८ ॥ सङ्गतं तमो यस्मिन् काले सं तथोक्तः ॥ २८७८ ॥ [G.762] नरविशेषमधिकृत्याह तथा हि चन्द्रदिग्मोहवेदवर्णस्वरादिषु। पुरुषान्तरसम्प्रश्नादन्यथात्वेऽवधारणम् ॥ २८७९॥ तैमिरिकादीनां द्विचन्द्रादिज्ञानेषु पुरुषान्तरपरिप्रश्नादेवान्यथात्वनिश्चयो भवति, न तत्र कालाद्यपेक्षा ॥ २८७९॥ , अवस्थाभेदमधिकृत्याह- . रागद्वेषमदोन्मादक्षुत्तृष्णादिक्षतेन्द्रियैः . ।। दुर्ज्ञाने ज्ञायमानेऽथ तदभावाद् विपर्ययः ॥ २८८०॥ तदभावदिति रागाद्यवस्थाया अभावात् ॥ २८८० ॥ ऋणादीत्यादिना लोकव्यवहारेणापि परीक्षकज्ञाने तृतीयस्यैवापेक्षेति प्रतिपादयति ऋणादिव्यवहारेऽपि द्वयोर्विवदमानयोः। एकं प्रत्यर्थिनो वाक्यं द्वे वाक्ये पूर्ववादिनः ॥ २८८१॥ अनवस्थाभयादेव न वाक्यं लिख्यतेऽधिकम् । ततस्तु निर्णयं ब्रूयुः स्वामिसाक्षिसभासदः ॥ २८८२॥ एवं ज्ञानत्रयस्यैव सर्वार्थाधिक्रियेष्यते। १. दरदेशत्वमेव-पा० गा० । . .. तस्यैव जनापेक्षा- ज०। सवर विकिये-पान, गा० । २. पा०. गा० पुस्तकयो स्ति। .. ५. भ्रान्तेर्वा-पा०. गा०। ३. यथा-पा०। ६. लिङ्गयते-जै० पुस्तके पाठा० ।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy