________________
स्वतःप्रामाण्यपरीक्षा
६४५ • बाध्यते तेन तस्यैव प्रमाणत्वमपोह्यते॥२८६९॥ .
एवं परीक्षकज्ञानत्रितयं नातिवर्तते।
ततश्चाजातबाधेन नाशङ्कयं बाधकं पुनः॥२८७० ॥ [G.760] यदि निरूपयतस्तस्यापि बाधकस्य बाधकान्तरमुत्पद्यते, तदा मध्यमस्य तृतीयेन बाधितत्वात् प्रथममेव प्रमाणं भवेत् । अथ नोत्पद्यते मूलस्य कारणस्याभावात् ? तदा तेनैव द्वितीयेन बलीयसाऽऽद्यं बाध्यत इति कृत्वा तस्य तेन प्रामाण्यमपोहितं भवति। नातिवर्तत इति नातिक्रामति। कोऽसौ? पुमानिति शेषः । अथ तृतीयेऽपि ज्ञाने द्वितीयज्ञानवद् बाधकापेक्षा कस्मान्न भवति, येन परीक्षकज्ञानत्रयं नित्यं यतः स्यात् ? इत्यत आह-ततश्चेत्यादि। अजातोऽनुत्पन्नो बाधो यस्य प्रमातुः ॥ २८६७-२८७० ॥ कस्मान्नाशयम् ? इत्याह
. उत्प्रेक्षेत' हि यो मोहादजातमपि बाधकम्।
स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत्॥२८७१॥ क्षयम्=नाशम्; तत्त्वभ्रंशात्॥ २८७१ ॥ तथा चेत्यादिना प्रवचनेनैतदेव समर्थयते
तथा च वासुदेवेन निन्दिता संशयात्मता। "नायं लोकोऽस्ति कौन्तेय! न परः संशयात्मन:२"॥२८७२॥
(भ० गी० ४.४०) वासुदेवेनेति विष्णुना । कुन्तेरपत्यं कौन्तेयः-अर्जुनः ॥ २८७२ ॥ . यद्येवम्, प्रथमेऽपि ज्ञाने बाधाशङ्का न प्राप्नोति, ततश्च सर्वज्ञानेऽपि प्रामाण्यप्रसङ्गः? इत्याशङ्कयाह- .
. . यावानेवापवादोऽतो यत्र सम्भाव्यते मतौ। अन्विष्टेऽनुपजाते च तावत्येव तदात्मनि॥२८७३॥ कदाचित् स्यादपीत्येवं न भूयस्तत्र वस्तुनि।
उत्प्रेक्षमाणैः स्थातव्यमात्मकामैः प्रमातृभिः॥२८७४॥ [G.761) यत्र यस्यां मतौ यावानेवापवादः सम्भाव्यते, तावत्येवापवादेऽन्विष्टेऽनुपजाते च, तदात्मनि-तत्र मतौ। स नास्तीत्येव गम्यत इत्यध्याहार्यम् ॥ २८७३-२८७४ ॥ कुत्र कियानपवादः सम्भाव्यते?-इत्येतदर्शयन्नाह- .
देशकालनरावस्थाभेदाः संव्यवहारतः।
सिद्धा एव हि ये यस्मिस्तेऽपेक्ष्या बाधकार्थिना ॥ २८७५ ॥ देशश्च कालश्च नरश्चावस्था चेति तथोक्ताः, तासां भेदा इति समासः ।। २८७५ ।।
एते च देशादिभेदाः कस्यचिदेव केचिद् बाधकाः, न तु सर्वे सर्वस्य । तेन न सर्वत्र सर्वेषामाशङ्का कार्या-इत्येतद्दर्शयन्नाह१. उत्प्रेक्षते-पा०, गा०। २. "नायं लोकोऽस्ति न परो न सुखं संशयात्मनः"-इति तत्रत्यः पाठः। ३. विष्ण्ववतारेण कृष्णेनेति यावत् ४. स्थातव्यं नात्मा-पा०; स्थातव्यं नात०-गा।