________________
६४४
तत्त्वसंग्रहे
ननु च प्रामाण्यमौत्सर्गिकं स्थितं सत् कथमपोह्यते', यद्यप्रामाण्यं [G.759] बाधकारणदुष्टत्वज्ञानाभ्यां प्रतिपाद्येत, तच्च ताभ्यां प्रतिपाद्यमानं परतो भवेत्; तथेष्यते एवेति चेत्. एवं सति प्रामाण्यवदत्राप्यनवस्था भवेत् ? इत्यत आह
परायत्तेऽपि चैतस्मिन् नानवस्था प्रसज्यते।
प्रमाणाधीनमेतद्धि स्वतस्तच्च प्रतिष्ठितम्॥२८६२॥ भवेदनवस्था, यद्यप्रामाण्यमप्रमाणतो भवेत्, यावताऽप्रमाणाद् विजातीयादप्रामाण्यमिष्यते । तच्च स्वत एव प्रतिष्ठितमिति कुतोऽनवस्था! ॥ २८६०-२८६२ ॥ एतदेव दर्शयति
प्रमाणं हि प्रमाणेन यथा नान्येन साध्यते। ... न सिध्यत्यप्रमाणत्वमप्रमाणात् तथैव हि ॥ २८६३॥ तुल्यजाताश्रयत्वे हि प्रतिष्ठा नोपपद्यते। . . .
विजातेस्त्वन्यहेतुत्वाद् दृढमूलप्रतिष्ठिता॥ २८६४॥ विजारति अप्रमाणस्य। अस्य च दृढमूलप्रतिष्ठितेत्यनेन सम्बन्धः। अन्यहेतुत्वा दिति हेतुनिर्देशः । अन्यो हेतुः प्रमाणलक्षणो यस्येति विग्रहः। दृढमूलप्रतिष्ठितेति। दृढा=अनवस्थादिदोषैरकम्प्या मूलप्रतिष्ठा यस्य स तथा, तद्भावस्तत्त्वम्॥ २८६३-२८६४ ॥
स्यादेतत्-यद्यप्यनपेक्ष्यप्रामाण्यो बाधकः प्रत्ययः, तथाप्यबाध्यमानतया प्रतीत एवान्यस्याप्रामाण्यमाधातुं समर्थः, नान्यथेति? अत आह
बाधकप्रत्ययस्तावद् अर्थान्यत्वावधारणम्।
सोऽनपेक्षप्रमाणत्वात् पूर्वज्ञानमपोहते॥२८६५॥ अपोहत इति प्रतिक्षिपति, प्रमाणत्वेन निरस्यतीत्यर्थः ॥ २८६५ ॥
स्यादेतद्-बाधकेऽपि प्रत्यये प्रथमज्ञानस्येव बाधकानन्तरं सम्भाव्यत एव, तत् कथं तत्र बाधकान्तरापेक्षा निवृत्ता, येनास्या बाध्यमानतानिश्चयो भवेत् ? इत्यत आह
तत्रापि त्वपवादस्य स्यादपेक्षा पुनः क्वचित्।
जाताशङ्कस्य पूर्वेण साप्यल्पेन निवर्त्तते॥२८६६॥ तत्रापि क्वचिदिति। अर्थान्यत्वावधारणलक्षणे बाधके प्रत्यये। जाताशङ्कस्येति पुंसः । पूर्वेणेत प्रथमेन ज्ञानेन। सापति अपवादापेक्षा। अल्पेनेति यत्नेनेति शेषः ॥ २८६६ ॥ कथं निवर्त्तते? इत्याह
बाधकान्तरमुत्पन्नं यद्यस्यान्विच्छतोऽपरम् । ततो मध्यमबाधेन पूर्वस्यैव प्रमाणता ॥२८६७॥ अथानुरूपयत्नेन सम्यगन्वेषणे कृते। . मूलाभावान विज्ञानं भवेद् बाधकबाधकम्॥२८६८ ॥
ततो निरपवादत्वात् तेनैवाद्यं बलीयसा। १. ननु च यद्य-गा। २. क्वचिदपोल-गा। 3. अपमाणत्वेनगा। ५. न्विष्यतो०-पा०, गा० ।
६. विज्ञातं-गा।
३-३. तथा च-गा०।