________________
६४३
स्वतःप्रामाण्यपरीक्षा द्वितीयेऽपि पक्षेऽनवस्थादोषं प्रतिपादयन्नाह
एवं यदि गुणाधीना प्रत्यक्षादिप्रमाणता। गुणाश्च न प्रमाणेन विना सन्ति कदाचन ॥ २८५५॥ ततो गुणपरिच्छेदि प्रमाणान्तरमिच्छतः।
तस्याप्यन्यपरिच्छिन्नगुणायत्ता प्रमाणता॥ २८५६॥ गुणाधीनेति कारणगुणपरिज्ञानायत्ता। प्रमाणतेति प्रमाणतानिश्चयः ।न सन्तीति । सव्यवहारायोग्या' न सन्तीत्यर्थः। तस्यापति गुणपरिच्छेदिनः [G.758] प्रमाणस्य। अन्यपरिच्छि त्रगुणायत्तेत । अन्येन प्रमाणेन परिच्छिन्नो यो गुणस्तन्निश्चयायत्तं प्रामाण्यमित्यर्थः ॥ २८५५२८५६॥ अत्र दृष्टान्तमाह
यथैवाद्ये ततश्चैवमनवस्थैव' पूर्ववत्।
तत्र तत्रैवमिच्छन्तो न व्यवस्थां लभेमहि ॥ २८५७॥ यथा प्रथमे ज्ञाने प्रमाणान्तरपरिच्छन्नगुणायत्ता प्रमाणता, तथान्यत्रापीत्यर्थः । पूर्ववदिति संवादतः प्रामाण्यनिश्चयवत्। तत्र तत्रेति पूर्वपूर्वस्मिन् गुणज्ञाने। अथ गुणज्ञानस्य स्वत एव प्रामाण्यमनवस्थाभयादङ्गीक्रियते? तदार्थविज्ञानेऽपि कः प्रद्वेषः, येन तस्य परत:प्रामाण्यमिष्यते, न तु स्वत इति न हि किञ्चित् कारणमुत्पश्यामः ! तस्मात् तीरादर्शने च शकुनिना सुदूरमपि गत्वा तत्रैव पुनरागन्तव्यमित्यलमप्रतिष्ठादिकुप्रतिपत्त्या ॥ २८५७ ॥
एतदेव दर्शयति- .. ___ : गुणज्ञानं गुणायत्तप्रामापयमथ नेष्यते।
आद्यमप्यर्थविज्ञानं नापेक्षेत गुणप्रमाम्॥ २८५८॥ अतो दूरमपि ध्यात्वा प्रामाण्यं यत् स्वतः कचित्। - अवश्याभ्युपगन्तव्यं तत्रैवादौ वरं स्थितम्॥२८५९॥ गुणायत्तम् गुणनिश्चयायत्तं प्रामाण्यं यस्य तत् तथोक्तम्॥ २८५८-२८५९ ॥
स्यादेतत्-संवादगुणज्ञानयोर्मूलज्ञानाद् विशेषोऽस्ति, तेन तयोः स्वतः एव प्रामाण्यं नौद्यस्य? इत्यत आह
- संवादगुणविज्ञाने केन वाभ्यधिके मते।
आद्यस्य तदधीनत्वं यद्बलेन भविष्यति॥२८६०॥ ननु यदि विज्ञानं स्वत:प्रमाणमेवं सति सर्वज्ञानप्रामाण्यप्रसङ्गः? इत्यत आह
तस्मात् स्वत:प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम्।
बाधकारणदुष्टत्वज्ञानाभ्यां तदपोह्यते॥२८६१॥ उत्सर्ग: सामान्येन विधानम्, तत्र भवमौत्सर्गिकम् । बाधाः अर्थान्यथात्वावधारणं कारणदुष्टत्वज्ञानं चेति बाधकारणदुष्टत्वज्ञाने ॥ २८६१ ॥ १. सद्व्यवहारयोग्या-गा।
२-२. यथाद्ये च तथान्यत्रेत्यनवस्था-पा०, गा०॥ ३.०ष्ठिकुप्र०-गा।