________________
६४२
तत्त्वसंग्रहे सामान्येन भावानामात्मलाभं प्रति कारणान्तरानपेक्षिता प्रतिपाद्य ज्ञानेऽपि योजयनाह
उत्पादमात्र एवातो व्यपेक्षास्ति स्वहेतुषु । .. ज्ञानानां स्वगुणेष्वेषा न तु निश्चयजन्मनि ॥ २८४८ ॥
स्वगुणेष्विति । निश्चयजन्मापेक्षयाऽऽधारसप्तमी। एतदुक्तं भवति-ज्ञानानां ये स्वगता गुणा अविपरीतबोधात्मकत्वम्, विशुद्धकारणजनितत्वमित्येवमादयः, तेषु निश्चयोत्पादे कर्त्तव्ये न त्वेषां हेतुषु व्यपेक्षाऽस्तीति ॥ २८४८ ॥ यद्येवम्, कथं तर्हि तेषां तत्र हेतुभावो भवति? इत्याह-.
जनने हि स्वतन्त्राणां प्रामाण्यार्थविनिश्चितेः।
स्वहेतुनिरपेक्षाणां तेषां वृत्तिर्घटादिवत् ॥ २८४९॥ प्रामाण्यं चार्थश्च-प्रमेय इति प्रामाण्यार्थी, तयोर्विनिश्चितिः। तस्या जनन इति सम्बन्धः । अर्थनिश्चितिरालोचनापेक्षयोच्यते; अन्येषां स्वयमेव निश्चयात्मकत्वात्। वृत्तिरिति। हेतुभाव इत्यर्थः ॥ २८४९॥
मृत्पिण्डदण्डचक्रादि घटो जन्मन्यपेक्षते। उदकाहरणे त्वस्य तदपेक्षा न विद्यते ॥२८५०॥ एवं स्वतःप्रमाणत्वम्; अन्ते चावश्यमेव तत्।
पराधीने प्रमाणत्वे ह्यनवस्था प्रसज्यते ॥२८५१॥ मृत्पिण्ड इत्यादिना घटादिवदिति दृष्टान्तं व्याचष्टे । [G.757] एवं प्रतिज्ञार्थाविरोधं समर्थ्य, हेतोस्तद्भावनियतत्वादित्यस्य व्याप्तिं प्रसाधयन्नाह–अन्ते चावश्यमेव दित्यादि। अन्त इति। सर्वपश्चिमे ज्ञान इत्यर्थः । तदिति प्रामाण्यम्। कस्मादवश्यमन्तेऽङ्गीकर्त्तव्यम् ? इत्याह- पराधीन इत्यादि ॥ २८५०॥ एतदेव दर्शयति
मौलिके रेच प्रमाणत्वे प्रमाणान्तरसांध्यता।
तव तत्रैवमिच्छन्तो न व्यवस्थां लभेमहि ॥२८५२॥ मूलम्=प्रथमं ज्ञानम्, तत्र भवं मौलिकम्। तत्समवायीति यावत्। तथा हि-परतः माण्यं कदाचिदर्थक्रियासंवादज्ञानाद्वा भवेत् ? कारणगुणपरिज्ञानाद्वा? तत्र न तावदाद्यः स इति दर्शयन्नाह -
यथैव प्रथमं ज्ञानं तत्संवादमपेक्षते।
संवादेनापि संवादः पुनर्मग्यस्तथैव हि ॥ २८५३॥ अथापि स्याद्-अर्थक्रियासंवादिज्ञानस्य स्वत एव प्रामाण्यमिष्टम्, तेनानवस्था न ष्यति? इत्याह
कस्यचित् तु यदीष्येत स्वत एव प्रमाणता।
प्रथमस्य तथाभावे प्रद्वेषः केन हेतुना.!॥२८५४॥ रापेक्षितां-पा०, गा०। २. अनयोर्वि०- पा०, गा०।
३. चेत्-पा०, गा०