________________
स्वतःप्रामाण्यपरीक्षा
६४१ न किञ्चित्कृतमिति तदवंस्थत्वात्। भावस्य विनाशाभावादकिञ्चित्करो विनाशहेतुरिति चर्चितमेतत् स्थिरभावपरीक्षायां विस्तरेण।
किञ्च–प्रकृत्या भावोऽस्थिरस्वभावो वा स्यात् ? स्थिरस्वभावो वा? तत्र यदि प्रकृत्यैवास्थिरात्मा भावः स्वहेतोरुत्पन्नः, तदा तेन स्वभावनिष्पत्तेरूवं स्वयं न स्थातव्यमेवइति तस्याकिञ्चित्करौ द्वावपि स्थितिनाशहेतू। अथ प्रकृत्या स्थिरात्मा भावः, तथापि तस्य स्वभावान्यथात्वासम्भवान्न कश्चिद् विनाशकः, स्वयमेव स्थावरत्वान्नापि कश्चित् स्थापक:इत्युभयथा स्थितिनाशहेतू अकिञ्चित्करौ।
नाप्यसदाश्रयत इति पक्षः; तस्य सर्वस्वभावरहितत्वेनाधेयत्वव्यापारयोरसम्भवाच्छशविषाणवदित्यसिद्धमाश्रितत्वं शक्तेः । सिद्धौ वाऽनैकान्तिकत्वम् आश्रितानामपि रूपादीनां घटे सहोत्पत्तिदर्शनात्, अप्रामाण्येऽपि प्रसङ्गाच्च । तथा हि-अप्रामाण्यमपि विपरीतार्थपरिच्छेदोत्पादिका शक्तिः । शक्तेश्च विज्ञानाश्रितायाः कालत्रयेऽप्यकरणात् प्रामाण्यवदप्रामाण्यात्मिका शक्ति: स्वत एव प्रसज्येत।
किञ्च-यदि कालत्रयेऽपि ज्ञातृस्य शक्तिर्न प्रादुर्भवति, तदा सर्वसामर्थ्यशून्यं विज्ञानं प्राप्नोति । यस्य हि यो धर्मः कालत्रयेऽपि न संञ्जायते, स कथं तस्य सम्भवेत्, यथाऽऽकाशस्य मूर्त्तत्वम् ! कुतो वा शक्तिभिरिदमत्यद्भुतमिन्द्रजालं शिक्षितम्, येनैता विज्ञानस्य कालत्रयेऽप्यसमासादितसम्भवा अपि सत्यस्तेन सह सङ्गतिमनुभवन्तीति ! किमप्येतन्महाद्भुतं नित्यत्वादनुभवन्तीति चेत् ? न; सर्वस्य शक्तियोगिताप्रसङ्गात्, नियामकाभावात्। न ह्यनायत्तस्य प्रतिनियतपदार्थयोगितायां [G.756] किञ्चित् कारणं नियामकं पश्यामो येनैता विज्ञानस्य भवेयुः, नान्यस्येति। ततश्च प्रत्यासन्ननिबन्धनाभावात् सर्वस्यैवैताः प्राप्नुवन्तीत्युक्तमेतत्। न चापि तासामकिञ्चित्करः कश्चिदाश्रयो युक्तः; नित्यत्वेन कस्यचित् स्वभावविशेषस्य कर्त्तव्यस्याभावादित्यलं बहुना ॥ २८४२-२८४५ ।।
पुनरपि प्रकारान्तरेण प्रतिज्ञार्थं विकल्पयन्नाह. . .स्वतस्त्वस्य प्रमाणांनां प्रामाण्यस्योपवर्णनात्।
स्वकार्ये वृत्तिर्जातानामथाप्यभिमता स्वतः॥२८४६॥ एतदुक्तं भवंति-अथ स्वतःप्रामाण्यमित्यनेनायमर्थोऽभिप्रेत:-जातानामुत्तरकालं स्वत एव कारणान्तरानपेक्षाणां वृत्तिहेतुभाव इति यावत् । तेन यथोक्तदोषानवसर इत्यभिप्रायः परस्य । तत्र प्रमाणानां स्वकार्यं स्वगतप्रामाण्यनिश्चयः, अर्थनिश्चयो वा। एतस्मिन् स्वकार्ये कर्तव्ये न हेतुमपेक्षन्ते ।। २८४६ ॥ कुतस्तषेषां व्यपेक्षा? इत्याह
. आत्मलाभे हि भावानां कारणापेक्षितेष्यते।
. लब्धात्मानः स्वकार्येषु वर्तन्ते स्वयमेव तु॥२८४७॥ १. महद्भूत-पा०, गा०। २.०स्वकार्ये- गा०। ३. लब्धात्मनाम्-इत्यपि पाठ: क्वचित् ।