________________
६४०
तत्त्वसंग्रहे यदि चासत्प्रामाण्यमन्येन कर्तुं न शक्यत इति स्वतस्तदुच्यते ? अप्रामाण्यमपि तमुनेनैव न्यायेन स्वत एव प्राप्नोतीति यत्किञ्चिदेतत्।
___ योऽपि मन्यते-"प्रामाण्यं नाम विज्ञानस्यार्थपरिच्छेदोत्पादिका शक्तिः, शक्तिश्च क्षणिकविज्ञानाश्रितत्वात् स्वतोऽसती न शक्यते कर्तुम्; कालत्रयेऽपि तस्याः क्रियामुपपत्तेः। तथा हि न तावत् प्राग्विज्ञानोत्पत्तेः क्रियते, आश्रितत्वात् । न ह्याश्रितस्याश्रयाभावे करणं युक्तम्, यथा-कुड्याभावे चित्रस्य; अनाश्रितत्वप्रसङ्गात्। अत एव सहकरणमप्ययुक्तम्; आश्रितत्वात् । न हि कुड्यालेख्ययोराश्रयाश्रितयोर्युगपदारम्भः सम्भवति । नाप्युत्पन्नस्य सतो विज्ञानस्य पश्चात्क्रियते; क्षणिकत्वात्, तावत्कालं स्थितेरभावात्। अतः सर्वप्रमाणानां स्वतः प्रामाण्यमुच्यते'' इति, तदेतदसम्यक्; तथा हि-यत्तावदुक्तम्-'अर्थपरिच्छेदोत्पादिका शक्तिः प्रामाण्यम्' इति, तदसम्बद्धम्; अर्थपरिच्छेदस्य ज्ञानपर्यायत्वात्। न च तदेव ज्ञानमाश्रिता सती शक्तिस्तस्यैवोत्पादिका युज्यते; अनाश्रितत्वप्रसङ्गात्, समानकालं च कार्यकारणभावादुपपत्तेः। ... यच्चोक्तम्-'आश्रितत्वात् सह प्राक् न क्रियते' इति, तदप्ययुक्तम्; अव्यतिरेकादाश्रितत्वासिद्धेः । भावस्वभाव एव हि विशिष्टार्थक्रियाकारी तद्भावमात्रजिज्ञासायां शक्तिरिति व्यपदिश्यते, नार्थान्तरम्। अर्थान्तरत्वे भावस्याकारकत्वप्रसङ्गः सम्बन्धासिद्धिश्चेति निर्लोठितमेतद् बहुधा। तस्मात् स्वभावभूता विज्ञानस्य शक्तिरभिन्नयोगक्षेमत्वाद् विज्ञानस्वभाववत् प्राग्विज्ञानोत्पत्तेरसत्येव क्रियत इत्यविरुद्धम् । सहैव च विज्ञानेनोत्पद्यत इत्यपि युक्तमेव; स्वभावभूतस्य धर्मस्य भावेन सहैकयोगक्षेमत्वात्। ..
___ भवतु नाम शक्तेर्व्यतिरेकः पदार्थात्, तथापि सदसतोराश्रितत्वानुपपत्तेराश्रितत्वमसिद्धम् । तथा हि-सत् तावन्नाश्रयते; तस्य सर्वात्मना निष्पत्तेर्निरपेक्षत्वात् । नापि स तस्या आश्रयो युक्तः; तस्याकिञ्चित्करत्वात्। [G.755] यथा विन्ध्यो हिमवतः । स्थितिस्तेन क्रियत इति चेत् ? न; स्थिते: स्थातुरव्यतिरेकात् । स्थातुरेव हि स्वभावस्तथा भेदान्तरप्रतिक्षेपेणोच्यते। न च तेनाश्रयेणावास्थातुरात्मा क्रियत इत्यकिञ्चित्कर एव! व्यतिरेकेऽपि स्थितेः स्थातु: स्थापकोऽकिञ्चित्कर एव; अर्थान्तरभूतायाः स्थिते: करणात् । न चान्यस्य करणेनान्यस्य किञ्चित् कृतमित्युभयथापि स्थापकस्याकिञ्चित्करत्वम्। तत्सम्बन्धिनी स्थितिं करोतीति
चेत् ? न; स्थाप्यस्थापकयोरिव स्थितिमतः स्थित्या सह सम्बन्धासिद्धेः, अनवस्थाप्रसङ्गश्चेति निर्लोठितप्रायमेतत् ।
किञ्च-यदि पदार्थस्य स्थपिका स्थितिरर्थान्तरभूताऽङ्गीक्रियते, तदा न कस्यचित् पदार्थस्य विनाशः प्राप्नोति; स्थापिकायाः स्थितेर्विद्यमानत्वात् । नापि विनाशहेतुवशात् सत्यामपि स्थितौ विनाशो भविष्यतीति शक्यं वक्तुम्; तस्याप्यकिञ्चित्करत्वादयुक्तं विनाशकत्वम्। तथा हि तत्राप्ययं विकल्पोऽवतरत्येव-किं भावादर्थान्तरभूतं विनाशं नाशहेतुः करोति? आहोस्विद्भावमेव? न तावद् भावमेव करोति; तस्य निष्पन्नत्वात् । अन्यस्य च करणे भावस्य १. निर्लोडित०-पा०, गा० ।
२-२. सत०-पा०. गा०। ३. निर्लोडित०-पा०, गा०।