________________
स्वतःप्रामाण्यपरीक्षा
६३९ स्वयमेव भावान्न स्वाश्रयैस्तासां सम्बन्धः सिध्यति; तेषां तदनुपकारकत्वात् । न चानुपकारक आश्रयो युक्तः; अतिप्रसङ्गात्। .
किञ्च-अनिमित्ताः स्वातन्त्र्येणैता भवन्त्यो न देशकालनियममपेक्षेरन्। तथा हियस्य किञ्चित् क्वचिदायत्तमनायत्तं वा भूत्वोपलीयते, न वा यत् पुनरनायत्तं स्वातन्त्र्येण प्रवृत्तम्, तत्किमिति कदाचित् क्वचिद् विरमेत्। ततश्च प्रतिनियतशक्तियोगिता भावानां न स्यात्; अन्यथा सर्वस्य सर्वत्रोपयोगः स्यादिति।
अन्ये तु मन्यन्ते-"तत्कार्यदर्शनमाश्रित्येदमुच्यते-'स्वत: सर्वप्रमाणानाम्' इत्यादि; यतः सर्व एव भावाः सन्त एव कारणैः क्रियन्ते कार्योत्पादनियमात्। न ह्यसन्तो व्योमकुसुमादयः क्वचिदपि शक्यन्ते कर्तुम्, सिकतासु वा तैलम्। असत उत्पत्तौ सर्वस्यासत्त्वेऽतिशयाभावात् सर्वदा सर्वत्र चोत्पत्तिः स्यादिति? तदेतदयुक्तम्; कारणवैयर्थ्यप्रसङ्गात् । असत् तावद् भवन्मते न किञ्चित् क्रियते । सतोऽपि सर्वनिराशंसत्वान्न किञ्चित् कर्त्तव्यंमस्तीति किं हि कुर्वंस्तस्य तत्कारकं भवेत् ! अतः कार्यकारणत्वाभावप्रसङ्गः । अभिव्यक्तिः सतः क्रियत इति चेत् ? न; तस्या अपि सदसत्त्वेन कारणविरोधात्। यतस्तत्रापीदं विकल्पद्वयमवतरति-किं सा सती क्रियते? आहोस्विदसतीति? प्रथमे पक्षेऽतिशयाभावात् करणानुपपत्तिरित्युक्तम्। तत्राप्यभिव्यक्त्याश्रयणेऽनवस्थाप्रसङ्गः। नापि द्वितीयः पक्षः; असतः क्रियानभ्युपगमात् । अभ्युपगमे वा भावस्याप्यसतः करणप्रसङ्गात्। .
किञ्च-अर्थान्तरभूता वा भावादभिव्यक्तिः क्रियेत? अनर्थान्तरभूता वा? यद्यर्थान्तरभूता क्रियेत, तदा भावस्य न किञ्चित् कृतं स्यात्। न ह्यन्यस्य करणेऽन्यत् कृतं नाम; अतिप्रसङ्गात्। तत्सम्बन्धिन्यभिव्यक्तिः क्रियत इति चेत् ? न; अनुपकार्यतया तत्सम्बन्धित्वासिद्धेः। उपकारे वाभ्युपगम्यमाने तस्याप्यर्थान्तरत्वेऽनवस्थाप्रसङ्गात् सम्बन्धासिद्धिः। अनर्थान्तरत्वेऽपि कारणानां वैयर्थ्यप्रसङ्गः । भावादेवाश्रयभूतादुपकारस्वभावाया अभिव्यक्तेरुत्पादानित्याभिव्यक्तिप्रसङ्गः; स्वभावस्याभिव्यक्तिकारणस्य सर्वदा विद्यमानत्वात्। नाप्यनुपकार्यस्य परापेक्षा युक्तेति प्रतिपादितं बहुधा।
अथानान्तरभूताभिव्यक्तिः क्रियत इति पक्षः? सोऽप्ययुक्तः; अतिशयाभावात्। तथा हि-अनर्थान्तरभूता क्रियत इति भावस्वभावः क्रियते-इत्युक्तं भवति। तस्य च सत्त्वेन सर्वनिराशंसत्वात् करणमयुक्तमित्येतदेव [G.754] चिन्त्यते।
किञ्च-अभिव्यक्तिवद् भावस्याप्यसतः करणं स्यात्; व्यतिरेकात्। भावस्वभाववद् वाभिव्यक्तेरपि सत्या एव करणप्रसङ्गः। न चैतदपि युक्तम्; अतिशयाभावात्। अनवस्थाप्रसङ्गादित्युक्तम्। सदर्थविषये च कारणव्यापार इष्यमाणे कारणानां कार्यक्रियानुपरमप्रसङ्गः। किं हि तदोपलभ्य कारणानि निवर्तेरन् ! कार्यसत्तामिति चेत् ? न; भवन्मत्या तस्याः प्रागपि भावात् । तस्मादसदेवोत्पद्यते, यस्य कारणमस्ति, न व्योमकुसुमादि; तदुत्पादनसमर्थकरणाभावादिति। अतः कारणशक्तिप्रतिनियमात् कार्यकारणभावनियमो भविष्यति। न हि सर्वो भावः सर्वोत्पादनसमर्थोऽङ्गीक्रियते; अनादिस्वहेतुपरम्परया सर्वभावानां शक्तेर्नियमितत्वात् । ४. साक्यमतमेतत् प्रतीयते।