________________
६३८
तत्त्वसंग्रहे तद्रूपनिश्चयार्थं तु प्रतिपत्तावपेक्ष्यते ॥ २८४१ ॥ [G.752] स्यादेतत्-यदि भवतां ज्ञानापेक्षया परतःप्रामाण्यं साध्यते, तदास्माकमपि सिद्धसाध्यता। तथा हि-ज्ञानमप्यर्थापत्तितस्तावत् सिद्धमिष्यते, किमङ्ग पुनः तच्छक्तिरूपं प्रामाण्यम् ? अर्थनिश्चयलक्षणे स्वकार्ये तु कर्त्तव्ये ज्ञानं नापेक्षत इति स्वतस्तदुच्यत इति? तदेतदसम्यक्; प्रामाण्यनिश्चयमन्तरेण स्वार्थनिश्चयस्यैवासम्भवात्। संशयादिविषयीकृतस्य च कथं कार्ये निरपेक्षता, प्रमाणान्तरग्रहणापेक्षायां वा कथं स्वपक्षे अनवस्था न स्यादिति यत्किञ्चिदेतत् ॥ २८४१॥ किञ्फेत्यादिना हेतोस्तद्भावनियतत्वादित्येतस्यानैकान्तिकतामुद्भावयति
किञ्चाप्रामाण्यमप्येवं स्वत एव प्रसज्यते। .. न हि स्वतोऽसतस्तस्य कुतश्चिदपि सम्भवः ॥२८४२॥ अनपेक्षत्वमेवैकमप्रामाण्यनिबन्धनम् । ' इत्याद्यत्रापि निःशेषमभिधातुं' हि शक्यते॥२८४३॥ विसंवादनसामर्थ्य निश्चयं तु यथाऽन्यतः।। तथा संवादसामर्थ्य सर्वथात: समं द्वयम्॥२४४४॥ ततः कोऽतिशयो दृष्टः प्रामाण्यस्य विपर्ययात्।
येन स्वतस्तदेवेष्टं परतस्त्वप्रमाणता॥ २८४५॥ तथा संवादसामर्थ्य निश्चयमन्यत इति वर्त्तते। समं द्वयमिति प्रमाणम्, अप्रमाणं च। विपर्ययादिति अप्रामाण्यात्।
योऽपि मन्यते-"न नित्यत्वाच्छक्तीनां स्वाभाविकत्वम्, नापि स्वहेतुभ्य एवोत्पत्तेरुत्तरकालं कारणान्तरानपेक्षणात्, किं तर्हि ? स्वभावत एव भावानां प्रतिनियतरूपाः शक्तयः समुद्भवन्तीति स्वाभाविकत्वमासाम् । तथा हि-यदेव स्वात्मनि रूपमस्ति कारणानाम्, तदेव तैः कार्ये समाधीयते, यथा कपालैरुपजन्यमाने घटे रूपादयः स्वगुणद्वारेणैव प्रारभ्यन्ते, उदकाद्याहरणशक्तिस्तु तैरात्मन्यविद्यमानत्वान्नाधीयते घटे, स्वत एव तु सा तस्य प्रादुर्भवति, तथा ज्ञानेऽपि तत्कारणैरिन्द्रियादिभिरर्थपरिच्छेदशक्तिरात्मन्यविद्यमानत्वान्नाधीयते, स्वत एव सा तस्य भवतीति। अतः स्वाभाविकी शक्तिः" इति, तस्याप्येतत् प्रलापमात्रम्; अनेन न्यायेनाप्रामाण्यस्यापि स्वत एव प्रसङ्गात्। तथा हि-तदपि विपरीतार्थपरिच्छेदादिशक्तिलक्षणम्, न च नयनादीनां तथाविधशक्तियोगोऽस्तीति। किञ्च-यद्यात्मन्यविद्यमानं रूपं कारणैर्नाधीयते कार्ये, तदा कथमिन्द्रियादयो ज्ञाने' रूपतामात्मन्यसतीमादधति विज्ञाने। ६अथाविद्यमानापि [G.753] सा तैराधीयते? अर्थपरिच्छेदशक्तिं किं नादधीरन् ! न हि तदाधाने तेषां कश्चित् प्रतिरोद्धा।
किञ्च-यदि तावदव्यतिरेकिण्यः शक्तयो भावादभ्युपगम्यन्ते, तदा भावस्वरूपवत् तासामपि हेतुप्रतिबद्धैरात्मस्थितिरिति कुतः स्वाभाविकत्वमासाम् ! अथ व्यतिरेकिण्यः, तदा
१. ० पत्तदपे०-०। २-२. इत्याद्यं वाप्यनि-पा०,गा०। ३. निश्चयं– पा०,गा०। ४. निश्चयम- पा०, गा० । ५. ज्ञानेन- गा०। ६. तथा०-पा०: यथा०-गा। ७. ता०-गा० ।