________________
स्वतःप्रामाण्यपरीक्षा
६३७ केशपाशादिदर्शन इति। केशोण्डुकादिदर्शने। अनेनैतदाह-यद्यप्यनुभूता शक्तिः, तथाप्यप्रमाणसारूप्याद् भ्रान्तेनिश्चेतुं न शक्यते, विषादिशक्तिवत्। न ह्यनुभव एव केवलो निश्चयहेतुः; अन्यस्याप्यभ्यासादेरपेक्षणात्। यत्र ह्यंशे भ्रान्तिनिमित्तेन न गुणान्तरमारोप्यते, तत्रैव निश्चयः ॥ २८३४॥ कुतस्तर्हि सा निश्चेतव्या'? इत्याह
तस्मादर्थक्रियाज्ञानमन्यद् वा समपेक्ष्यते।
निश्चयायैव न त्वस्या आधानाय विषादिवत् ॥ २८३५॥ अन्यद्वेति हेतुशुद्धिज्ञानम्। न त्वस्या आधानायेति । अन्यदपेक्षत इति सम्बन्धः । अस्या इति शक्तेः । निश्चयस्य पुरुषाधारत्वात् तदुत्पत्तये युक्ता कारणान्तरापेक्षा, [G.751] न त्वाधानाय; तस्य शक्त्याधारत्वात्, शक्तेश्च सहभावनिष्पत्तौ निष्पन्नत्वादिति भावः ॥ २८३५ ॥ यथा हीत्यादिना विषादिवदिति दृष्टान्तं व्याचष्टे
यथा हि विषमद्यादेस्तदन्यसमतेक्षणात् । फलानन्तरताभावाच्चैतदात्माविनिश्चये ॥२८३६॥ मूस्वेिदप्रलापादितत्फलोत्पत्तिनिश्चये ।
तादात्म्यं गम्यतेऽप्येवं ज्ञाने तच्छक्तिनिश्चयः॥ २८३७॥ तदन्यसमतेक्षणादिति। तस्माद्विषादेरन्यन्नागरपानकादि, तेन समता-सारूप्यम्, तस्या ईक्षणमिति विग्रहः। फलानन्तरताभावदिति। फलं मूर्छादि, तस्यानन्तरताया अभावादिति विग्रहः । अनन्तरं फलाभावादिति यावत्। एतदात्माविनिश्चय इति विषाद्यात्माविनिश्चये। तादात्म्यमिति विषादिस्वभावत्वम्। तच्छक्तिनिश्चयइति यथावस्थितज्ञेयवस्तुबोधाप्तिनिश्चयः ॥ २८३६-२८३७॥ स्ववचनविरोधं प्रतिझायाः प्रतिपादयन्नाह
· क्रिञ्चाविवादमेवेदं प्रामाण्यं शक्तिलक्षणम्। · . प्रमाणान्तरनिश्चयमित्येवं हि त्वयोदितम् ॥२८३८॥
शक्तयः सर्वभावानां कार्याापत्तिसाधना।
• इत्यर्थापत्तितः सिद्धं न सिद्धं परतः कथम् !॥२८३९॥ न सिद्धं परत: कमिति । सिद्धमेव; अर्थापत्तेः प्रमाणान्तरत्वादिति भावः ॥ २८३८२८३९ ॥
यदुक्तम्-"तदेव हि विनाश्येत" (तत्त्व० २८१३) इति, तस्यानैकान्तिकत्वं प्रतिपादयन्नाह
. निष्पान्नानंशरूपस्य प्रामाण्यस्य स्वहेतुतः।
तदेवं न विनाशाप्तिर्निश्चयेऽन्यव्यपेक्षणात् ॥२८४०॥ एतदेव स्पष्टयन्नाह
. न तत्स्वभावनिष्पत्त्यै प्रमान्तरमपेक्ष्यते। १. निश्चितव्या-गा०। २. निश्चय:- मा०।
३. विषादाद्यात्माविनिश्चय:- गा० ।