________________
६३६
तत्त्वसंग्रहे यन्नामोत्तरकालं हि रूपमाधीयते परैः ।
तद्भावान्तरमेवेति न तस्यात्मापदिश्यते ॥ २८०२८॥ तथा हि-स्थिरास्थिरस्वभावभेदेन द्विप्रकारस्यापि पदार्थस्य निरंशत्वात् सर्वात्मना परिनिष्पत्ते!त्तरकालं प्रत्ययान्तरेणात्मभूता शक्तिराधातुं पार्यते। आधाने वार्थान्तरकरणमेव स्यात्, न तु स्वभावभूतशक्त्याधानम्। भावस्वभावानभ्युपगमे वा शक्तेर्भावस्याकारकत्वप्रसङ्ग इत्युक्तम् ॥ २८२७-२८२८ ॥
स्यादेतत्-मा भूदनंशस्य वस्तुन उत्तरकालं शक्त्याधानम्, सांशस्य कस्मान्न भवति? इत्याह
विरुद्धधर्मसङ्गो हि वस्तूनां भिन्नतोदिता।..
तनिष्पत्तावनिष्पत्तेः शक्तावपि स विद्यते ॥२८२९॥ स विद्यत इति विरुद्धधर्मप्रसङ्गः ।। २८२९ ॥ . अस्थिरे तु भावे विशेषेण दूषणमाह
साधितक्षणभङ्गाश्च सर्वेऽर्था इति तेषु न। । प्रत्ययान्तरमाधातुं शक्तिं किञ्चन शक्तिमत्॥ २८३०॥ न हि तेषामवस्थान परस्तादस्ति येन ते।
प्रत्ययान्तरतः शक्तिं लभेरन् कुत्रचित् फले॥२८३१॥ [G.750] कुत्रचित् फल इति अर्थनिश्चयादौ । शेषं सुबोधम् ॥ २८३०-२८३१ ॥
स्यादेतत्-यदि भवतां न विवादः, कथं तर्हि परतःप्रामाण्यमभ्युपगतम् ? इत्यत आह
एतावत् तु वदन्त्यत्र सुधियः सौगता इमे।
ज्ञाने क्वचित् स्थिताप्येषा न बोद्धं शक्यते स्वतः ॥ २८३२॥ बोद्धमिति निश्चेतुम्। स्वत इति विज्ञानस्वरूपादनुभवमात्रादनपेक्षितोत्तरकालभाविकार्यसंवादात् ।। २८३२।।
स्यादेतत्-विज्ञानाव्यतिरेकाच्छक्तेर्विज्ञानग्रहणे सापि गृहीतैव, तत् कथं बोद्ध न शक्यते? इत्याह
यथावस्थितविज्ञेयवस्तुबोधाप्तिशक्तताम् ।
को नामानुभवात्मत्वानिश्चेतुं केवलात् प्रभुः॥ २८३३॥ बोधश्चाप्तिश्च बोधाप्ती, यथावस्थितस्य विज्ञेयस्य वस्तुनो ये बोधाप्ती, तत्र-तद्विषये, शक्ततेति विग्रहः। केवलादिति। सम्बन्धादिकारणगुणपरिज्ञानानपेक्षात् ।। २८३३ ।। कस्मान प्रभुः? इत्याह
अप्रमाणेऽपि येनैतत् केशपाशादिदर्शने। विद्यतेऽनुभवात्मत्वं विस्पष्टाकारभासिनि ।। २८३४॥
. ३. शक्तं-पा०, गा०।
१. ०रात्मोपदिश्यते-पा०, गा०। ४-४. इत्यर्थः निश्चयादौ-जै०।
२. शक्तेरकारकत्व०-पा०, गा० ५.०शक्तिताम्-जै०/