________________
स्वतःप्रामाण्यपरीक्षा
६३५ यदा हि व्यञ्जकैः प्रमाणस्वरूपं व्यज्यते, तदा तदुपलभ्यते, नान्यदेति । तेन सत्यपि नित्यत्वे न सर्वदोपलब्धिप्रसङ्गः । नापि कार्यस्य सदा सद्भावप्रसङ्गः; कारणान्तरापेक्षस्य कार्यारम्भकत्वाभ्युपगमात्, न केवलस्य । तेन कारणान्तरसन्निधानासन्निधानाभ्यां कार्यस्य कादाचित्कता भवतीति भावः ॥ २८२२ ॥ व्यक्तीत्यादिना प्रतिविधत्ते
व्यक्तिहेत्वन्तरापेक्षे व्यस्ते नित्यस्य वस्तुनः।
तस्मात् तद्रूपकार्याणां नित्यं स्यादुपलम्भनम् ॥ २८२३॥ व्यक्तिश्च हेत्वन्तरापेक्षा चेति व्यक्तिहेत्वन्तरापेक्षे। पूर्वं हि श्रुतिपरीक्षायां विस्तरेण व्यक्तिर्नित्यस्य निरस्ता । हेत्वन्तरापेक्षा चानुपकार्यस्यायुक्तेति प्रतिपादितम्। तद्रूपकार्याणामिति । तेषाम्=प्रमाणानाम् । रूपकार्याणि-रूपम्=स्वभावः । उभयपक्षस्तु विरोधाद् यथोक्तपक्षद्वयभाविदोषप्रसङ्गान्न युक्तः । नाप्यनुभयपक्षः, परस्परव्यवच्छेदरूपाणामेकनिषेधस्यापरविधिनान्तरीयकत्वान्न तदानीमेव विहितस्य निषेधो युक्तः; एकत्र विधिप्रतिषेधयोर्विरोधादिति भावः। स्फटतरत्वाद् दूषणस्यैतन्त्रोक्तम् । २८२३ ॥ इदानीमन्तिमं पक्षत्रयमभ्युपगम्य दूषणमाह
पृथक्त्वमुभयात्मत्वं वाऽस्तु शक्तेस्तथापि तत् ।
ज्ञानं नित्यं भवेदेव नित्यशक्त्या हि सङ्गतम् ॥ २८२४॥ पृथक्त्वम् व्यतिरेकपक्षः। उभयात्मकग्रहणमुपलक्षणम्। अनुभयात्मकपक्षाङ्गीकारोऽपि द्रष्टव्यः । यद्वा-तस्याप्युभयरूपप्रतिषेधस्वभावतयोभयात्मकत्वमस्त्येव। अस्मिन् पक्षत्रयेऽपि नित्यया शक्त्या ज्ञानस्य सम्बन्धानित्यत्वं स्यात् ॥ २८२४॥ [G.749] कथम्? इत्याह.: अन्यथा हि न नित्या स्यादेकरूपासमन्वयात्।
कदाचित् सा हि सम्बद्धा तज्ज्ञानेन न चान्यदा॥ २८२५॥ -- अन्यथा हि यदि शक्तिसम्बद्धं ज्ञानमनित्यं भवेत्, तदा शक्तेर्नित्यत्वं न प्राप्नोति। कुतः? एकरूपासमन्वयात्। एकस्वभावानुगमाभावादित्यर्थः । तमेवैकरूपासमन्वयं दर्शयतिकदाचिदित्यादि। अनित्ये हि विज्ञाने सति शक्तेस्तज्ज्ञानसम्बन्धासम्बद्धस्वभावद्वयं स्यात् । न चैकस्य परस्परविरुद्धस्वभावद्वयसम्भवो युक्तः; एकत्वहानिप्रसङ्गात्, भेदव्यवहारोच्छेदापत्तेश्च ॥ २८२५॥ द्वितीयं विकल्पमधिकृत्याह
अथ शक्तिः स्वहेतुभ्यः प्रमाणानां प्रजायते।
जातानां तु स्वहेतुभ्यो नान्यैराधीयते पुनः ॥ २८२६॥ तदत्रेत्यादिना सिद्धसाध्यतां पक्षदोषमाह
तदत्र न विवादो नः को ह्यनंशस्य वस्तुनः । स्वहेतोऊपजातस्य शक्तिं पश्चात् प्रकल्पयेत्! ।। २८२७॥
१. केवलमस्य-पा०, गा०/