________________
६३४
हेत्वन्तरेणाधीयते ? इति कृत्वा स्वाभाविकीति विकल्पद्वयम् ! तत्र न तावदाद्यो विकल्पः, तथा हि- सा व्यतिरिक्ता वा भवेद्, अव्यतिरिक्ता वा, यद्वा उभयानुभयस्वभावा - इति चत्वारः पक्षाः ॥ २८१६ ॥
तत्र न तावदाद्यः; सम्बन्धासिद्धेः पदार्थस्याकारकत्वप्रसङ्गाच्चेत्यादिना सर्वपदार्थानामव्यतिरिक्तैव शक्तिरिति बहुशः प्रतिपादितत्वात् । एतदेव सूचयन्नाह - इष्टकार्यसमर्थं हि स्वरूपं शक्तिरुच्यते ।
तत्त्वसंग्रहे
तस्य भावात्मनाभावे' भावो न स्यात् सकारकः ॥ २८१७॥ कार्यकरणसमर्था हि स्वभावशक्तिः, तस्य च स्वभावस्य भावात्मताया अभावे सति स भावः कारको न स्यात्; ततश्चास्यावस्तुत्वप्रसङ्ग इति भावः ॥ २८१७॥ · अथाव्यतिरिक्तेति पक्षः ? तदा स्वाभाविकी न स्यात्; अर्थस्य हेतुबलभावित्वेनानित्यत्वात् तदव्यतिरिक्ताया अपि शक्तेर्हेतुबलभावित्वेनानित्यताप्रसङ्गात्; अन्यथा हि भिन्नयोगक्षेमत्वादभेदो न स्यात् । एतदेवाह
सा चानित्येदृशी शक्तिः स्वहेतुबलभाविनी ।
स्वाभाविकी प्रमाणानां युष्माभिः कथमिष्यते ॥ २८१८ ॥ किञ्च–प्रमाणानां शक्त्यव्यतिरेकाच्छंक्तिस्वरूपवन्नित्यत्वाहेतुत्वप्रसङ्ग इति
दर्शयन्नाह
स्वाभाविक्यां हि शक्तौ स्यान्नित्यता हेतुताथ वा ।
प्रमाणानां च तादात्म्यान्नित्यताहेतुते ध्रुवम् ॥ २८१९॥ ततश्च को दोष: ? इत्याह
सदाभावोऽथ वाऽभावोऽहेतुत्वेऽप्यनपेक्षणात् ।
अतः कार्यं तदायत्तं कादाचित्कं न युज्यते ॥ २८२० ।।
[G.748] अहेतुत्वे सदाभावोऽभावो वा । नित्यत्वे तु सदाभावोऽनुक्तः ' सिद्ध एवेति नोक्तः । अपरमपि प्रसङ्गमाह— अत इत्यादि । तदायत्तमिति प्रमाणायत्तम् । एतेन यथायोगं प्रत्यक्षानुमानविरोधी प्रतिज्ञाया दर्शितौ ॥ २८२० ॥
दृश्यते च प्रमाणानां स्वरूपं कार्यमेव च ।
कादाचित्कमतः शक्तिर्युक्ता स्वाभाविकी न वः ॥ २८२१॥
तथा हि- प्रमाणानां स्वरूपं कादाचित्कं प्रत्यक्षत एव सिद्धम् । अनुमानतोऽपि कार्यक्रमतोऽनुमितम्, ततश्च तस्य नित्यत्वाभ्युपगमः स्फुटतरमेव प्रमाणाभ्यां बाध्यत इति
॥ २८२१ ॥
प्रमाणानामित्यादिना परस्य यथोक्तप्रसङ्गद्वयसमर्थनोयपामशङ्कते - प्रमाणानां स्वरूपं चेद् व्यञ्जकैर्व्यक्तमीक्षते । प्रत्ययान्तरसापेक्षं कार्यमारभते च तत् ॥ २८२२॥
३. र्व्यक्ता पा० गा० ।
१. ०त्मताभावे - पा०, गा० । ४. ० द्वयसमाधानोपा० – गा० ।
२. ० नु.... - पा०; ० नुक्तोऽपि गा० । ५. ० व्यक्तिमश्नुते पा०, गा० ।