________________
स्वतः प्रामाण्यपरीक्षा
६३३
क्यत्वादाकाशस्येव मूर्त्तत्वम् । यदाह - " न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते" (तत्त्व० २८१२) इति ॥ २८१०-२८११॥
अत्र स्वत इत्यादिना तुच्छं प्रतिज्ञार्थं सम्भावयँस्तद्विचारद्वरेण दूषणमारभते । [G.746] कोऽर्थ इष्यते ? - इति प्रश्ने, पर आह
मेयबोधादिके शक्तिस्तेषां स्वाभाविकी स्थिता ।
न हि स्वतोऽसती शक्तिः कर्तुमन्येन' पार्यते ॥ २८१२ ॥ यदि ज्ञानं प्रमाणम्, तदा तस्य मेयबोधे प्रमेयपरिच्छेदे स्वाभाविकी शक्तिः; अर्थपरिच्छेदकत्वाज्ज्ञानस्य । अथ चक्षुरादीनि ? तदा तेषां यथार्थज्ञानजनने चोदनाया अतीन्द्रियार्थाधिगमे स्वत एव शक्तिः - इत्येतदादिशब्देन संगृहीतम् । अत्रैव तावत् पर उपपत्तिमाहन हीत्यादि ॥ २८१२ ॥
एतदेव दर्शयन्नाह -
अनपेक्षत्वमेवैकं प्रामाण्यस्य निबन्धनम् ।
तदेव हि विनाश्येत सापेक्षत्वे समाश्रिते ॥ २८१३॥ प्रामाण्यस्येति प्रामाण्यव्यवस्थानस्य । तदेव हीति प्रामाण्यम्; व्यापक निवृत्तौ व्याप्यस्यानवस्थानात् ॥ २८१३ ॥
स्यादेतत्-विनाश्यतां नाम, को दोषः ? इत्याह
को हि मूलहरं पक्षं न्यायवद्याध्यवस्यति !
येन तत्सिद्ध्युपार्योऽपि स्वोक्त्यैवास्य विनश्यति ॥ २८१४ ॥ मूलम्= प्रामाण्यम्, तच्च सापेक्षत्वेनापह्रियते; तस्य तद्व्यापकविरुद्धत्वात् । तथा हिनिरपेक्षत्वेन प्रामाण्यं व्याप्तम्, तच्च कथं स्वव्यापकविरुद्धे सापेक्षत्वे सत्यवस्थां लभेत ! येनेत्यादिना प्रामाण्यस्यानपेक्षत्वेन प्राप्तिं दर्शयति- येनेति । यस्मादित्यर्थः ॥ २८१४ ॥
कथं विनश्यति ? इत्याह
-
सापेक्षं हि प्रमाणत्वं न व्यस्थाप्यते क्वचित् ।
अनवस्थितहेतुश्च कः साध्यं साधयिष्यति ! ॥ २८१५ ॥
न व्यवस्थाप्यत इति । अनवस्था स्यात् । भवत्वनस्थादोष: ? इत्याह- अनवस्थित इत्यादि। अनवस्थितः=अपरिनिश्चतो हेतुर्यस्य वादिनः स तथोक्तः । एतदुक्तं भवति - ज्ञातो हि ज्ञापको व्याप्यमर्थं ज्ञापयति, न सत्तामात्रेण; ततश्च वादी स्वयमेव वादप्रतिपन्नः कथं परप्रतिपादनाय साधनमुपादास्यते ! ॥ २८१५ ॥ इत्येवमित्यादिना दूषणमारभते
इत्येवमिष्यतेऽर्थश्चेन्ननु चाव्यतिरेकिणी ।
शक्तिः सर्वपदार्थानां पुरस्तादुपपादिता ॥ २८१६ ॥
[ G.747] तंत्र स्वाभाविकीति कोऽर्थोऽभिप्रेतः ? किं नित्यत्वेन निर्हेतुकत्वात् स्वाभाविकी; आहोस्विदनित्याऽपि सती स्वहेतुभ्यो ज्ञानानां स्वभावनिष्पत्तिकाल एव भवति, न तूत्तरकालं
११. ०दुपयुज्यते— पा०, गा० ।