________________
२५. स्वतःप्रामाण्यपरीक्षा एवमित्यादिनाभूयः स्वतन्त्रश्रुतिनि:सङ्गत्वमेव प्रकारान्तरेण समर्थयते
एवं च पौरुषेयत्वे वेदानामुपपादिते। "स्वतः प्रामाण्यमप्येषां प्रतिक्षिप्तमयत्नतः॥२८१०॥ स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम्।
(नो० वा०, चो० ४७) इत्येतस्य च वाक्यस्य भवद्भिः कोऽर्थ इष्यते?॥ २८११॥ [G. 745] तथा हि-श्रुतेः प्रामाण्यं यथा स्यादिति मन्यमानाः "सामान्येन सर्वप्रमाणानां स्वत:प्रामाण्यमप्रामाण्यं तु परतः" इत्याहुजैमिनीयाः। परतः किल प्रामाण्येऽनवस्थादिदोषप्रसङ्गात् प्रमाणेतरव्यवस्थोच्छेदः स्यात् । तथा हि-चत्वारः पक्षाः सम्भवन्ति-कदाचिदुभे अपि प्रामाण्याप्रमाण्ये स्वत एवेति प्रथमः, कदाचिदपरत एवेति द्वितीयः, प्रामाण्यं परतोऽप्रामाण्यं तु स्वत एवेति तृतीयः, एतद्विपर्ययश्चतुर्थः । तत्र न तावदाद्यः पक्षः, तथा हि-एकव्यक्त्याधारं वा तदुभयं स्याद् ? व्यक्तिभेदेन वा? न तावंदेकस्यां व्यक्ती परस्परपरिहारस्थितलक्षणयोः प्रामाण्येतरधर्मयोः सम्भवः; विरोधात्। नापि व्यक्तिभेदेन; नियमकारणाभावानिश्चयहेत्वसम्भवाच्चासङ्कीर्णप्रमाणाप्रमाणव्यवस्थानाभावप्रसङ्गात् । तथा हि-द्वयोरपि स्वातन्त्र्याद् इदं प्रमाणमेवेति नियमो न स्यात् । बाधसामान्येन च द्वयोरपि तिरोहितभेदत्वाद्, अन्यस्य चावधारणकारणस्यानभ्युपगमाद् विभागेनापरिज्ञानाद्-इदं प्रमाणमप्रमाणमिति व्यवस्था न स्यात् । नापि द्वितीय: पक्षः; प्रागुभयस्वभावरहितस्य ज्ञानस्य नि:स्वभावत्वप्रसङ्गात्। न हि परस्पर-परिहारस्थितलक्षणयोः प्रामाण्येतरयोरभावे रूपान्तरमस्य शक्यमवधारयितुमित्यसंशय-मस्यानुपाख्यत्वमापद्यते। आह च
"स्वतस्तावद् द्वयं नास्ति विरोधात् परतो न च। नि:स्वभावत्वमेवं हि ज्ञानरूपे प्रसज्यते ॥ विज्ञानव्यक्तिभेदेन भवेच्चेदविरुद्धता। तथाप्यन्यानपेक्षत्वे किं व नेति निरूप्यते ॥" इति।
(श्री० वा०, चो० सू० ३५, ३७) नापि तृतीयः पक्षः; अनवस्थादोषात्। तथा हि-न तावत् परतोऽप्रमाणभूतात् प्रामाण्यमाशंसनीयम्; तस्य स्वयमेवाप्रमाणत्वात्। नापि प्रमाणभूतात्; तस्यापि तुल्यपर्यनुयोगेन परत:प्रामाण्याशंसायामनवस्थाप्रसङ्गात्। ततश्चैकप्रमाणव्यक्तिव्यवस्थापनाय प्रमाणपरम्परामनुसरतः सकलमेव पुरुषायुषमुपयुज्येत । तस्माद् गत्यन्तराम्भवात् स्वतः सर्वप्रमाणानां प्रामाण्यम्, परतोऽप्रामाण्यमिति गृह्यताम्। तत्र प्रयोग:-ये यद्भावनियतास्ते तं प्रति न परमपेक्षन्ते, यथाऽऽकाशममूर्त्तत्वाय। प्रमाणभावनियताश्च विवादास्पदीभूता विज्ञानादय इति व्यापकविरुद्धोपलब्धिः । न चास्याऽनैकान्तिकत्वम्, स्वतोऽसम्भविनो धर्मस्य परेणाधातुमश१. गम्यताम्-इत्यपि पाठः। २-२. ०दुभेऽपि-पा०, गा०। ३. शक्यते- पा०, गा० ।