SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रुतिपरीक्षा करामलकवद् यस्य देशकालनरान्तरम् । प्रत्यक्षं तत्र तेनायं बाधाभावोऽवसीयते ॥ २८०५ ॥ तत्रेति देशकालनरान्तरे । तत्र यदुक्तम्- " न चैष देशान्तरे कालान्तरे वा विपर्येति तस्मादवितथः "" (मी० द० शा० भा० १.१.२) इति, तदनेन दूषितं भवति ॥ २८०३ - २८०५ ॥ यदुक्तम्–“तस्मादालोकवत्" (तत्त्व० २३५०) इति, अत्राहनराविज्ञातरूपार्थे तमोभूते ततः स्थिते । वेदेऽनुरागो मन्दानां स्वाचारे पारसीकवत् ॥ २८०६ ॥ अविज्ञाततदर्थाश्च पापनिष्यन्दयोगतः । तथैवामी प्रवर्त्तन्ते प्राणिहिंसादिकल्मषे ॥ २८०७ ॥ [G.744] रूपम्=स्वरूपम्, अर्थः = अभिधेयः, नराविज्ञातौ रूपार्थावस्येति विग्रहः । तत्र रूपमविज्ञातम्; किमयमेव वर्णः, अथान्यो विशेष एव वर्णक्रमः, उत न- इति स्वतः परतश्च निश्चयायोगात् । एवमर्थेऽप्यनिश्चयों द्रष्टव्यः । ततश्च तमोभूते - निश्चयाभावेनानालोकभूतत्वात्। तथैवेति' । पारसीकादिवड्ढोसेवादिषु' । पापम् = पूर्वपापाभ्यासवासना, तन्निष्यन्दः ३ ॥। २८०६ - २८०७ ॥ यदुक्तमादौ – “ अवश्यं धर्माधर्मार्थिभिः पुरुषैः प्रेक्षावद्भिश्चोदनैव प्रमाणत्वेनाश्रयणीया" इति, तत्राह - धर्मं प्रति न सिद्धातश्चोदनानां प्रमाणता । स्वतोऽन्येभ्यश्च मन्देभ्यस्तदर्थानवधारणात् ॥ २८०८ ॥ ६३१ धर्मग्रहणमुपलक्षणम्, अधर्मोऽपि ग्रहीतव्यः ॥ २८०८ ॥ यद्येवम्; कस्तर्हि धर्मादिव्यवस्थाश्रयः ? इत्याह • ज्ञानालोकव्यपास्तान्तस्तमोराशिः पुमानतः । श्रुत्यर्थानां विविक्तानामुपदेशकृदिष्यताम् ॥ २८०९॥ अन्तस्तमः=क्लिष्टाक्लिष्टमज्ञानम्, ज्ञानालोकेन व्यपास्तः- ध्वस्तो ऽन्तस्तमोराशिर्येन स तथोक्तः । विविक्तानामिति । अनवद्यानाम् = सुधीनाम्, पशुवधकाममिथ्याचारादिकलङ्कान - ङ्कितानामित्यर्थः। उपदेशकृदिष्यतामिति । एवं हि तदपौरुषेयत्वं प्रकल्पितं सार्थकं भवतीति भाव:; अन्यथा हि तस्मिन्नविज्ञातार्थे तदपार्थकमेव स्यात् । अनेनैतदुक्तं भवति-योऽयं स्वतः प्रमाण्याभ्युपगमो भवताम्, स न विना सर्वज्ञेन युक्त इत्यतोऽवश्यं सोऽभ्युपगन्तव्यः; अन्यथा तत्र प्रामाण्यासिद्धिरिति प्रतिपादितत्वात् । ततश्च तदुक्तमेव वरं वचनं धर्मादि- समाश्रयोऽस्तु, किमपरमप्रमाणोपपन्नापौरुषेयत्वकल्पनया ! यच्चोक्तम्–योगिप्रत्यक्षसमाधिगम्योऽपि धर्मादिर्न भवतीति, तदपि शेषवदनुमानेन योगिनः पश्चात् साधयिष्यमाणत्वादिति भावः ॥ २८०९ ॥ इति श्रुतिपरीक्षा ॥ १- १. पा० गा० पुस्तकयोर्नास्ति । ४. शुद्धानाम्- गा० । २. पा० पुस्तके नास्ति । ५. दोषवत्, अनुमानेन गा० । ३. ० तथैवेति, पारसीकादिवत् पा०, गा० ।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy