________________
६३०
तत्त्वसंग्रहे
सप्तमी 'नित्यवाक्योद्भवत्वस्य' इत्येतदपेक्षा । वाक्यस्येति नित्यत्वे' इत्येतदपेक्षा सम्बन्धषष्ठी। नित्यवाक्योद्भवत्वस्येति असिद्ध्यपेक्षा षष्ठी। पश्चिमेष्विति। "दोषवर्जितैः कारणैर्जन्यमानत्वात्" (तत्त्व० २३४७) इत्यादिषु च ॥ २८०१-२८०२ ॥
अनाप्ताप्रणीतोक्तिजन्यत्वाद्, बाधवर्जनादित्यनयोस्तु हेत्वोर्निश्चितैवासिद्धतेति दर्शयनाह
बाध्यते च श्रुतिः स्पष्ट क्षणभङ्गे प्रसाधिते।
नित्या तावत् स्वरूपेण तत्कृतातो मतिः कुतः॥२८०३॥ नित्या तावत् स्वरूपेणेति बाध्यत इति सम्बन्धः। एतदुक्तं भवति-स्पष्टं हि [G.743] हेतुबलप्रवृत्तानुमानतः सर्वपदार्थव्यापिनि क्षणभंङ्गे प्रसाधितें सलि येयं नित्यत्वेनाभ्युपगता श्रुतिः सा तावद्बाध्यत इति स्वरूपग्रहणमभिधेयव्यदासार्थम्। तत्कृताऽतो मतिः कुतः इति । नैवेत्यर्थः । एतेन 'अनाप्ताप्रणीतोक्तिजन्यत्वात्' इत्येतस्याश्रयासिद्धतोक्ता ॥
'बाधवर्जनात्' इत्येतस्य च स्वरूपोऽसिद्धतां निश्चितां दर्शयन्नांह-- __ न हि शीर्यत इत्युक्तः पुरुषश्च श्रुतावलम्। .
पुरस्तस्योदिता बाधा सुव्यक्ता तदसिद्धता॥२८०४॥ "अशीर्योऽयं न हि शीर्यते", "अविनाशी वा अरे अयमात्मा" (बृ० उ० ४.५.१५१४) इति वेदे पठ्यते। अस्य च पुरुषस्य आत्मनः, पुर:=पूर्वं नैरात्म्यसिद्धौ, बाधोक्ता। अतो निश्चितमसिद्धत्वमस्य।
ननु च–'चोदनेति क्रियायाः प्रवर्तकं वचनमाहुः' (मी०, द०, शा० भा० १.१.२) इति वचनाद् वैदिकैकदेशविशेष एव चोदनोच्यते, न तु सर्वो वेदः, चोदनाजनिता बुद्धि:३ पक्षीकृता। न तस्यान्यार्थस्य वेदस्य बाधायामपि न चोदनाया बाधेति हेतोः सिद्धिरेव? नैष दोषः; चोदनाग्रहणेन क्वचित् सर्वमेव वैदिकं वाक्यमुच्यते, न तु सर्वदा प्रवर्तकमेव। अन्यथा "न हिंस्याद् भूतानि" इत्येतद् वाक्यं चोदना न स्यात्; अप्रवर्तकत्वात्। यथोक्तं भाष्ये- "उभयमिह चोदनया लक्ष्यते-अर्थोऽनर्थश्च" (मी० द०, शा० भा० १.१.२) इति, तदपि विरुद्धयेत। न हि चोदनाऽनर्थे प्रवर्त्तयति, येन तथाऽनर्थो लक्ष्यत इति स्यात् । किञ्च यदेतदपरमुक्तं भाष्ये- "विप्लवते खल्वपि कश्चित् पुरुषकृताद् वचनात् प्रत्ययः, न तु वेदवचनस्य मिथ्यावसाये किञ्चन प्रमाणमस्ति" (मी० द० शा० भा० १.१.२) इति; अस्य तावद् बाधनाच्चोदनायामपि बाधा सम्भाव्यमाना दुवारैव । तथा हि कुमारिलेनोक्तम्"अकर्तृकत्वसिद्ध्या च हेतुत्वं साधयिष्यते'' (शो० वा०, चो० सू० १८६) इति ॥ २८०४॥
यदा चाकर्तकस्यापि नित्यपुरुषादिविषयस्य वेदवचसो बाधा परिस्फुटा समीक्ष्यते, 'तदा "अग्रिहोत्रात् स्वर्गो भवति" इत्यादावपि बाधाशङ्का दुारैवेति स्फुटा तावत् सन्दिग्धासिद्धता पूर्वोक्तैव। अत एव पुनर्निर्वर्त्य सन्दिग्धासिद्धतामेव द्रढयन्नाह. पा. पुस्तके नास्ति। २. तस्य-पा० गा०।
३. तु बुद्धि:-गा। ) तस्मादन्या-पा. गा.
५. अस्य नित्यस्य– गा०। . ६. यथा-पा०, गा०। ८. वा शङ्का-पा०: साशङ्का-गा।
जथा-पार गा