________________
श्रुतिपरीक्षा
६२९ कृतकस्यानादित्वं युज्यते तत् ? इत्याह- तस्मादित्यादि। तस्मादनादित्वाद् यद्यकृतकत्वं स्यात्, तदा पारसीकादिव्यवहारस्यापि स्यात् ।। २७९५ ॥ एतदेव दर्शयति
तथा हि पारसीकादिव्यवहाराः एराश्रयाः।
नास्तिकानां च सिद्धान्तः परसंस्कारभाविकः ॥ २७९६ ॥ पराश्रयाइति । परपुरुषसंस्कारेण प्रवृत्ता इत्यर्थः । परसंस्कारभाविकइति । परसंस्कारेण भावः, स यस्यास्ति स तथोक्तः । परसंस्कारेण वा भवितुं शीलमस्येति परसंस्कारभावी, ततः स्वार्थे को विधेयः । तथा हि-येऽपि तावत् स्वप्रतिभारचितसङ्केताः सिद्धान्ताः, तेषामपि यथाश्रुतार्थविकल्पवशेनैव प्रवृत्तेः परसंस्कारबलेनैव प्रवृत्तिः प्रागेव प्रायेण, तथा दर्शनवृत्तानां लोकव्यवहाराणाम् ॥ २७९६॥ भवतु सर्वेषामपौरुषेयत्वमिति चेद्? इत्याह- .
ईदृश्यकृतकत्वे च कः सिद्धेऽपि गुणस्तव।
अवैतथ्यनिमित्तं हि यत्नोऽयं भवतोऽखिलः॥२७९७॥ ईदृशि-सम्भवद्वितथार्थे ।। २७९७ ॥ . . "अतीतानागतौ कालौ" (तत्त्व० २३४३) इत्यादावाह
कालत्वपुरुषत्वादौ सन्दिग्धव्यतिरेकिता। पूर्ववत् करणाशक्तेनराणामप्रसाधनात्॥ २७९८॥ व्यक्तेश्च प्रतिषिद्धत्वाद् वक्ता कर्तव गम्यताम्।
• तत्प्रयोगद्वयेऽप्युक्तं साध्यशून्यं निदर्शनम्॥ २७९९॥ [ G. 742] सर्वेषां हि नराणां करणाशक्तिप्रसाधनं विपर्यये हेतोर्बाधकं प्रमाणम्, तस्य चानुपदर्शनात् सर्वहेतूनां साध्यविपर्यये व्यतिरेकः सन्दिग्ध इत्यनैकान्तिकता। पूर्ववदिति। वेदाध्ययनवाच्यत्वसाधनवत्। साध्यशून्यं निदर्शनमिति। वर्तमानकालवत् प्राकृतनरवदित्येतत् ॥ २७९८-२७९९॥ . 'अतश्च गम्यताम्' (तत्त्व० २३४५) इत्यादावाह
नरोपदेशापेक्षत्वात् कृतकस्य च साधनात्।
स्वार्थे वकानपेक्षत्वं धर्मिदृष्टान्तयोर्न च॥२८००॥ धर्मिदृष्टान्तयोरिति । साध्यधर्मिणि, दृष्टान्तधर्मिणि चेत्यर्थः ॥ २८०० ॥ "तत्कृतः प्रत्ययः सम्यक्" (तत्त्व० २३४६) इत्यादावाह
नित्यत्वेऽस्ते च वाक्यस्य धर्मिदृष्टान्तयोरपि। नित्यवाक्योद्भवत्वस्य स्पष्टासिद्धिः प्रतीयते॥२८०१॥ इत्थं चापौरुषेयत्वे चोदनाया अनिश्चिते।
सन्दिग्धासिद्धता दोषः पश्चिमेष्वपि हेतुषु॥२८०२॥ अत्रापि हेतोरसिद्धता, दृष्टान्तस्य च साध्यविकलता पूर्ववत्। धर्मिदृष्टान्तयोरिति १. यद्यत्कृतकत्वं-पा०, गा०। २. स्यादेव- गा०। ३. परोपदेशा०- जै० पुस्तके पाठा० ।