________________
६२८
तत्त्वसंग्रहे शक्यं सौगतमप्येवमनुमातुं वचो यतः ॥२७८९॥ __ एवमनुमातुमिति। सौगतप्रवचनाध्ययनं प्रथमाभिहितं सजातीयाध्ययनपूर्वकम्; सौगताध्ययनवाच्यत्वात्, अधुनाध्ययनं यथेति॥ २७८९ ॥ यद्येवम्, कथं तर्हि तत्सौगतं सेत्स्यति? इत्याह
तदभिव्यक्तरूपत्वात् तदीयं च तदुच्यते। कर्तुस्मृतिश्च तत्रापि भवत्वर्थनिबन्धना ॥२७९०॥ परैरेवं न चेष्टं चेत् तुल्ये न्याये न किं मतम्।
मा भूद् वैवं परस्येष्टिायात् त्वाशङ्कयते तथा॥ २७९१॥ तेन-सुगतेनाभिव्यक्तं रूपम् स्वभावो यस्य तत् तथा, तद्भावस्तत्त्वम्। अत्रापि सौगतेया कर्तृस्मृतिस्त्वर्थवादनिबन्धना शक्यते व्याख्यातुम्। तथा हि- अत्रापि करोतिः स्मरणार्थः किं न व्याख्यायते ! स्यादेतत्-न हि बौद्धैरेवमिष्टम्, येनैवं साध्येत? इत्याहतुल्ये न्याये न किंमतमिति । यद्ययमर्थो युक्त्युपेतः स्यात्, तदा किमिति बौद्धोनाभ्युपगच्छेत्, न हि. न्यायोपपन्नेऽर्थे प्रेक्षावतोऽनभ्युपगमो युक्तः। मा भूद् बौद्धस्य. प्रेक्षावतोऽभ्युपगमः, तथापि न्यायादेवमापद्यते भवत इति ब्रूमहे ॥ २७९०-२७९१॥
"सर्वदा चैव पुरुषाः प्रायेणानृतवादिनः। यथाद्यत्वे न विश्रम्भस्तथातीतार्थकीर्तने"॥२७९२॥
' (शो० वा०, चो० सू० १४४) इत्येतेन त्वदुक्तेन न्यायेन च न सिध्यति। कर्ता कश्चित् क्वचिद् ग्रन्थे स्वां कृतिं कथयन्नपि॥ २७९३॥ ततश्चापौरुषेयेषु सत्याशा त्यज्यतामियम्।
वेदार्थविपरीता हि तेष्वर्थाः प्रतिपादिताः॥२७९४॥ इत्येतेनेति । "सर्वदा च" इत्यादिनानन्तरोक्तेन । स्यादेतद्, भवतु [G.741] सर्वेषामपौरुषेयता? इत्याह-ततश्चेत्यादि । ततश्चापौरुषेयत्वं सत्यार्थं न सिध्येत्; सौगतादिवचनेनानैकान्तिकत्वादिति भावः । तथा हि-वेदार्थविपरीता नैरात्म्यादयो भवन्मतेनाप्रमाणोपपन्नास्तेषु सौगतादिषु वचनेषु निर्दिष्टाः, तथा वैदिका अपि सम्भाव्येरन् ।। २७९२-२७९४ ॥
एवं तावदनैकान्तिकत्वं प्रतिपादितम्, इदानीमिष्टविघातकादित्वाद् विरुद्धत्वमस्य प्रतिपादयन्नाह
अपि चानादिता सिध्येदेवं नानरसंश्रयः।
तस्मादकृतकत्वे वा स्यादन्योऽप्यागमोऽकृतः॥ २७९५॥ ___ तथा हि-अपौरुषेयत्वमस्य साधयितुमिष्टम्, तच्च न सिध्यति', किं तर्हि ? अनादित्वमात्रमनिष्टमेव सिध्यति । स्यादेतत्-अनादित्वे सिद्धे सामर्थ्यादकृतकत्वं सिध्यत्येव, न हि १ पथमाभमतं-गा।
२. तत्रापि-पा०, गा०। २.मापाहाते-पालगा।
४. सिद्धम्-- पा०, गा०।।