________________
____६२७
६२७
श्रुतिपरीक्षा समस्तनरधर्माणां प्रत्यक्षीकरणे सति।
स्यादेव निश्चयोऽयं च सर्वज्ञस्योपपद्यते॥२७८५ ॥ अयं चेति निश्चयः ॥ २७८४-२७८५ ॥
ननु च धर्माद्युपदेशदुर्भणत्वादीनां वेदधर्माणां पौरुषेयेषु वाक्येष्वदर्शनाद् वेदस्य पौरुषेयत्वमसम्भाव्यमेव, तत्कथं सन्दिग्धासिद्धता स्यात् ? इत्याशङ्कयाह
सम्भाव्यते च वेदस्य विस्पष्टं पौरुषेयता। काममिथ्याक्रियाप्राणिहिंसाऽसत्याभिधा तथा॥२७८६॥ दुर्भणत्वानुदात्तत्वक्लिष्टत्वाश्रव्यतादयः ।
वेदधर्मा हि दृश्यन्ते नास्तिकादिवचस्स्वपि॥२७८७॥ एवं मन्यते-यदि नामादर्शनम्, तथाप्यदर्शनमात्रस्याप्रमाणत्वात् सन्दिग्धासिद्धतैव, कदाचित् क्वचित् पुरुषास्तथाविधानां वेदधर्माणां कर्त्तारो भवेयुरिति। न चादर्शनमात्र सिद्धम्; काममिथ्याचाराद्युपदेशादेर्वेदधर्मस्य नास्तिकादिवचनेष्वपि दर्शनात्। काममिथ्याक्रियाकाममिथ्याचारः । मात्राद्यभिगमनमिति यावत् । तस्योपदेशो गोसवादौ। यथोक्तम्- 'उपहा उदकं चूषति तृणानि छिनत्ति उपैति मातरमुत स्वगोत्राम्' ( ) इत्यादि। उपहेति यजमानः । अश्वमेघादौ प्राणिवधोपदेशः । यथोक्तम्
"बहुनानि नियुज्यन्ते पशूनां मध्यमेऽहनि।
अश्वमेधस्य वचनादूनानि पशुभिस्तुभिः"॥ ( ) इति। असत्यम्-मृषावादः, तदप्युपदिष्टम् । यथोक्तम्"न नर्मयुक्तं ह्यनृतं हिनस्ति न स्त्रीषु राजन् न विवाहकाले।।
प्राणात्यये सर्वधनापहारे . पञ्चानृतान्याहुरपातकानि ॥" ( ) इति ।
एषां काममिथ्याचारादीनाम्, अभिधा-अभिधानम् । वेदधर्मा नास्तिकादिवचस्स्वपि दृश्यन्त इति सम्बन्धः । तथेति समुच्चये। दुर्भणत्वम् दुरभिधानम्, अनुदात्तत्वम्-मनोज्ञत्वम्, क्लिष्टम् व्यवहितम्। आमन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः' ( ऋ० ३. ४५.१ ) इत्यादिवत्। अत्र हि- 'आ मन्द्रैः' इत्ययं 'याहि' इत्यनेन व्यवहितेन सम्बध्यते। आयाहीत्यर्थः । अश्रव्यता-श्रुतिदुर्भगता। आदिशब्देन पदविच्छेदप्लुतोदात्तादिपरिग्रहः ।
विषापगमभूत्यादि यच्च किञ्चित् समीक्ष्यते।
सत्यं तद् वैनतेयादिमन्त्रवादेऽपि दृश्यते॥२७८८॥ विषापगमभूत्यादति। विषापगमे भूति: सामर्थ्यम्, प्रभाव [G.740] इति यावत्। अथ वा- भूतिश्चेति समासः । “भूतिर्विभूतिरैश्वर्यम्" (अम० को० १.१.३६) इति यावत्। आदिशब्देन भूतग्रहाद्यावेशवशीकरणाभिचारादयो गृह्यन्ते। सत्यमिति अविसंवादि। वैनतेयादी त्यादिशब्देन बौद्धादिमन्त्रवादपरिग्रहः ॥ २७८६-२७८८ ॥ 'भारतेऽपि भवेदेवम्" (तत्त्व० २३४५) इत्यादावाह
किञ्चामुना प्रकारेण पौरुषेयं न किञ्चन। १. ०त्ययं आइ-1101