________________
६२६
तत्त्वसंग्रहे
कार्यकारणपरम्परायाः, तदानैकान्तिकत्वं विरुद्धत्वं च; सम्बन्धिभ्यः सम्बन्धस्याव्यतिरेकात् तद्वदनित्यत्वप्रसङ्गात् । यच्चोक्तम्-"उपायरहितत्वेन' (तत्त्व० २७७७) इति, तदप्यसिद्धम्; यतो भेदेऽपि प्रकृत्या चक्षुरादिवदेकाकारप्रत्यवमर्शजनने समर्थाः केचिदर्था इति प्रतिपादितम्। , ततश्च वक्तृश्रोत्रोरेकार्थाध्यवसायी प्रत्ययः स स्वकरणेऽभ्युपाय इत्यभिप्रायः । यदप्युच्यते"वृद्धानां दृश्यमाना च प्रतिपत्तिः" (तत्त्व० २७७८) इति, तत्राप्युक्तम्- | G. 738] "वृद्धेभ्यो न च तद्बोधस्तेऽपि ह्यज्ञाः स्वतः स्थिताः" (तत्त्व० २७७२) इति। अन्यथा क्षतिरिति। यदि वृद्धाः स्वयमज्ञा अपि सन्तः सम्बन्ध प्रतिपद्यन्ते-इतीष्यते, तदा दृष्टविरोधोऽन्धस्येव रूपदर्शनप्रतिज्ञाया इत्यर्थः ।। २७७९ ॥ यदुक्तम्- "सङ्घातत्वस्य वक्तव्यमीदृशं प्रति साधनम्" (तत्त्व० २३४०) इत्यत्राह
सिद्धसर्वोपसंहारव्याप्तित्वान्न सम्भवि।
सङ्घातत्वादिलिङ्गस्य किञ्चन प्रतिसाधनम्॥ २७८०॥ .... सिद्धा सर्वोपसंहारव्याप्तिर्यस्य तत् तथोक्तम्, तद्भावः तत्त्वम्। अनेन वस्तुबल- ' प्रवृत्तत्वमस्य प्रतिपादयति; अन्यस्य सर्वोपसंहारेण व्याप्त्यसिद्धेः। न च वस्तुबलप्रवृत्तेऽनुमाने प्रतिसाधनसम्भवः; वस्तूनां स्वभावान्यथात्वस्य कर्तुमशक्यत्वात्। नापि परस्परविरुद्धस्वभावद्वयस्यैकत्र सम्भवः, एकत्वहानिप्रसङ्गात् ॥ २७८० ॥ तामेव सर्वोपसंहारेण व्याप्तिसिद्धिं दर्शयन्नाह- ..
सार्थकाः प्रविभक्तार्था विशिष्टक्रमयोगिनः। पदवाक्यसमूहाख्या वर्णा एव तथोदिताः ॥ २७८१॥ सार्थकप्रविभक्तार्थविशिष्टक्रमयोगिता ।
निषिद्धा पौरुषेयत्वे व्यामिरव्याहता ततः॥ २७८२॥ तथेति संहतत्वेनोदिताः । अपौरुषेयत्वे तु वर्णानां सर्वमेतदनुपपन्नमिति पूर्वं प्रतिपादितम्। अतो व्याप्तिसिद्धिः ।। २७८१-२७८२ ।।
ननु च "वेदाध्ययनवाच्यत्वात्' (तत्त्व० २३४१) इत्यस्यापि हेतोाप्तिः सर्वोपसंहारेण सिद्धैव, तथा हि-वेदानां कर्त्ता न कदाचिदप्युपलभ्यते? इत्याशङ्कयाह
वेदाध्ययनवाच्यत्वे न त्वेवं व्याप्तिनिश्चयः। .
सन्दिग्धव्यतिरेकित्वं व्यक्तं तेनात्र साधने ॥ २७८३॥ न त्वेवमिति । यथा सङ्घातत्वस्य। यतो न सङ्घातत्वस्य साध्यविपर्यये व्यतिरेकित्वं सन्दिग्धम्, अस्य तु सन्दिग्धम् ॥ २७८३ ॥ एतदेव प्रतिपादयति
तथाविधे क्रमे कार्ये नराशक्तौ च निश्चये।
सिद्धे व्याप्तिरिहेयं च निश्चेतुं नैव शक्यते॥२७८४॥ [G.739] तथाविध इति "स्वर्गकामोऽग्निष्टोमेन यजेत" इत्यादिके । एवम्भूतं वर्णक्रमं यदि कर्तुं सर्वनराणामशक्तिनिश्चिता भवेत्, तदा व्याप्तिनिश्चयो भवेत्; यावता सैव निश्चेतुमसर्वविदा न शक्यत इति दर्शयति