________________
६२५
श्रुतिपरीक्षा कारणाद् विनाश:--इत्यादिकं बहुविधं प्रमाणविरुद्धमुपलभ्यते। तत्कथं प्रेक्षावतस्तथाभूतेनागमेन प्रवृत्तिः स्यात् ! ।। २७७४॥
• यदप्यपरं कुमारिलेन सम्बन्धनित्यत्वसाधनाय साधनमुक्तम्, तस्योत्पाद्यकथारूपनाटकादिनाऽनैकान्तिकत्वमिति दर्शयति
उत्पाद्यार्थकथाधर्ममनालोच्य समं श्रुतौ।
एवं चेदमसम्बद्धं परैरत्रोपवर्णितम्॥२७७५ ।। उत्पाद्योऽर्थो यस्याः कथायाः सा तथोक्ता, उत्पाद्यार्था चासौ चेति विग्रहः । तस्य धर्म इच्छाविरचितार्थत्वम्॥ २७७५ ॥
किं तदुपवर्णितम् ? इत्याह. "शब्दार्थानादितां मुक्त्वा सम्बन्धानादिकारणम्।
न स्यादन्यदतो वेदे सम्बन्धादि न विद्यते ॥ २७७६ ।। उपायरहितत्वेन सम्बन्धाकरणानुमा।
अनाख्यानानुमानं तु दृष्टेनैव विरुध्यते ॥२७७७॥ [G. 737] शब्दो वर्णस्वभावः, तस्यार्थः सामान्यम्, तयोरनादित्वात् सम्बन्धोऽपि शक्तिलक्षणोऽनादिरेव, शक्तेर्भावाव्यतिरेकादिति भावः। तथा सम्बन्धकरणस्योपायाभावेन सम्बन्धाकरणमनुमीयते । प्रयोगः-यो यत्करणोपायरहितः स न तं करोति, यथा-अविद्यमानमृत्पिण्डदण्डचक्रसलिलसूत्रादिकारणकलापः कुलालो घटम् । सम्बन्धकरणोपायरहिताश्च सर्वपुरुषा इति व्यापकविरुद्धोपलब्धिः । न चासिद्ध हेतुः; श्रोतुः कर्तुं च सम्बन्धं वक्ता कं प्रतिपद्यताम्' (तत्त्व० २२५६) इत्यादिना सर्वपुरुषाणामुपायरहितत्वस्य प्रतिपादितत्वात् । यद्येवम्, कारणवत्सम्बन्धाख्यानाभावानुमानप्रसङ्गः? इत्याझ्याह- अनाख्यानानुमानं त्क्त्यिादि। अनाख्यानानुमाने हेतोः ‘उपायरहितत्वात्' इत्यस्यासिद्धिः ।। २७७६-२७७७ ॥ वृद्धानामित्यादिना तामेवासिद्धिं दर्शयति
वृद्धानां दृश्यमाना च प्रतिपत्तिः पुनः पुनः। उपाय इति तद्धानिरसिद्धाऽवगमं प्रति॥२७७८ ॥
(थो वा०, स० प० १३६-३९) .येयं वृद्धानां सम्बन्धप्रतीतिः पुनः पुनदृश्यते, स एव सम्बन्धकथनोपायः । न ह्यप्रतिपद्य परस्मै कथयितुमीशः। तद्धानिरित उपायहानिः ! अवगमं प्रति सम्बन्धावबोधं प्रति॥ इत्येतद्ध त्यादिना दूषणमाह
इत्येतद्धि भवेत् सर्वं यदि वेदार्थनिश्चयः।
वृद्धेभ्योऽप्यविसंवादी सिद्धः स्यादन्यथा क्षतिः ॥ २७७९ ॥ यदुक्तम् – 'शब्दार्थानादिताम्' (तत्त्व० २७७६) इत्यादि, तत्र यदि नित्यत्वं शब्दार्थयोरनादित्वमभिप्रेतम्, तदसिद्धम्; व्यापिनः क्षणभङ्गस्य प्रतिपादितत्वात्। अथ १. विरुध्यताम्-पा०, गा०।
२-२. कर्तुश्च- पा०. गा०। ३. मोशते-गा।
४. यन्न चदित्युक्तम्- जै: पा. पुस्तके नास्ति।