________________
६२४
तत्त्वसंग्रहे प्रतीतिः सम्भवति; तेनां सर्वेषामेवानभिज्ञत्वात्, अन्धानामिव वचनाद् रूपविशेषप्रतीतिः। तस्मात् सामर्थ्यादियमर्थप्रतीतिः पुरुषव्याख्यानादेवावतिष्ठते; गत्यन्तराभावादिति ॥ २७७१२७७२॥ नन्क्त्यिादिना परश्चोदयति
ननु पर्यनुयोगोऽयं कृतकेऽप्यागमे समः।
न तत्र श्रद्धया वृत्तेरर्थसंशयतोऽपि वा॥२७७३॥ नन्वयं समान:१ पौरुषेयेष्वप्यागमेषु प्रसङ्गः। तथा हि-किमिदानीन्तना परोक्षदेशिकानां बुद्धदिवचनानामर्थं यथाभिप्रायं प्रतियन्ति, आहोस्विद् विपर्ययमिति। न तक्रेत्यादिना प्रतिविधत्ते। तत्रेति पुरुषे । तदिष्टे हेयादितत्त्वे सोपाये पुरुषार्थोपयोगिनि। तथा हि-यत्र न्यायमेवानुपालयन्त सौगताः सुधियः प्रवर्त्तन्ते, न प्रवादमात्रेण। श्रद्धयेति । अभिसम्प्रत्ययेन युक्तिनिध्यानजेन निश्चयेनेति यावत्। प्रमाणसिद्ध एवार्थेऽभिसम्प्रत्ययस्य युज्यमानत्वात्। नान्यत्र; तत्र संशयानतिवृत्तेः । अर्थसंशयतोऽपि वेति। अत्यन्तपरोक्षेऽर्थे स्वर्गदेवतापूर्वादौ। तथा हि-तत्र पौरुषेये वाक्ये पुरुषस्य स्वाभिप्रायकथनेनाविपरीतसम्प्रदायसम्भवाच्छ्रोतृपरम्परया चाविच्छिन्नः सम्प्रदायः सम्यक् सम्भाव्यते । न त्वेवमपौरुषेये; तत्रोपदेष्टरभावात्। [G. 736] किञ्च-उपदेष्टा कृपया लोकप्रत्यायनाय' ब्रुवाणो लोकसङ्केतमेवानुसृत्य ब्रूत' इति ततो लोकप्रसिद्धरपि तदर्थसिद्धिः सम्भवेत् । न त्वपौरुषेयाणाम्; तत्र कस्यचित् समीहाभावात् ॥ २७७३॥
यद्येवम्, येन केनचिदागमेन किं न भवान् प्रवर्त्तते, सन्देहस्य सर्वत्र तुल्यत्वात् ?इत्येतच्चोद्यनिराकरणायेदमाह
प्रत्येक्षणानुमानेन विशुद्ध विषये सति। यत्र प्रत्यक्षानुमाभ्यामभिमतस्यार्थस्य तथाभावो न विरुध्यते, तेन प्रवर्त्तमानः शोभेत सत्यपि संशये, न तु यत्रान्यथाभावस्तत्र; दृष्टप्रमाणोपरोधितानर्थसंशयस्योद्भूतत्वात् । यद्येवम्, वेदेऽप्यनेनैव न्यायेन प्रवृत्तिर्भविष्यति? इत्याह
नन्वेवं वैदिके शब्दे स स्वयम्प्रत्ययो यतः ॥ २७७४॥ स्वयम्प्रत्यय इति। स्वत एव प्रमाणभूत इत्यर्थः । अतो न प्रमाणेन परीक्ष्य ततः प्रवृत्तिर्युक्ता; परतः प्रामाण्यप्रसङ्गात् । न चापि तस्य विषयाद् विशुद्धिः सम्भवति । तथा हि- अप्रच्युतानुत्पन्नपूर्वापररूपः पुमाननुक्रमेण कर्ता कर्मफलानां च भोक्ता वेदे पठ्यते। स चायुक्त इत्यावेदितमात्मपरीक्षायाम्। तथा सामान्यादीन्यप्रत्यक्षाण्यपि प्रत्यक्षत्वेनेष्टानि, तथा क्रमेण जन्मस्तिनिवृत्तयोऽसम्भविन्योऽपि भावानां निर्दिष्टाः, तथाऽनाधेयविशेषस्य प्रागकर्तुः परापेक्षया जनकत्वम्, तथा निष्पन्नस्य पराश्रयेण स्थितिरकार्यस्याप्युपदिष्टा, तथा . १. सामान्य:- पा०. गा० ।
२-२. पौरुषेये, अदृष्टे- म०। ३. अर्थसंशयतो-जै०।। ४. क्रियया-पा०। ५. लोकप्रत्ययनेय-पा०।
६. कुर्वाणो— पा० । ७. कृत-पा०।
८. न होवं-पा०, गा०। १०. पुमानु०-पा०. जै।
९.९. दिग्यविशद्धि-पा०, गा०/