________________
श्रुतिपरीक्षा
अथापि स्यात्, अभिव्यक्तिक्रमस्तर्हि वाक्यं भविष्यति ? इत्याह
न च व्यक्तिक्रमो वाक्यं नित्ये व्यक्तिनिषेधनात् । वाक्यस्यायोगतस्तस्मान्नित्यत्वं नोपपद्यते ॥ २७६६ ॥
च - शब्दान्नापि वर्णेभ्यो भिन्नं स्फोटाख्यं वाक्यमिति सूचयति । तस्य मीमांसकैरेव निरस्तत्वादिति भावः । नित्ये व्यक्तिनिषेधनादिति । नित्यस्य व्यक्तेर्निषिद्धत्वादित्यर्थः ॥ २७६६ ॥ यदुक्तम्- " दृष्टार्थव्यवहारत्वात् " ( तत्त्व० २३३८) इत्यादि, तत्राह - यथा वृद्ध्यादयः शब्दा इच्छाविरचितार्थकाः । स्वर्गयागादयः शब्दाः सम्भाव्यन्ते तथैव च ॥ २७६७ ॥ चोत्पाद्यकथारूपनाटकाख्यायिकादिषु ।
न
नित्यः शब्दार्थसम्बन्धो वास्तवोऽस्ति विवक्षितः ॥ २६७८ ॥
यथा वृद्ध्यादयइत्यादि । इच्छया रचितोऽर्थो येषां ते तथोक्ताः । उत्पाद्या=स्वयमपूर्वैव पुरुषेण या कथा महाश्वेतादिका, सैव रूपम् = स्वभावो येषां नाटकाख्यायिकादीनां ते तथोक्ताः । न च तेषु नित्यः शब्दार्थसम्बन्धोऽस्ति विवक्षितः शक्तिलक्षणः, तद्वद् वेदेऽपि सम्भाव्यत इति भावः ॥ २७६७-२७६८ ॥
तत्रापीत्यादिना परमतेन दृष्टान्तासिद्धिमाशङ्कते—
६२३
तत्रापि शक्तिनित्यत्वं नियोगस्य त्वनित्यता ।
तद्गता चेदनित्यत्वाच्छक्तौ भ्रान्तिः प्रवर्त्तते ।। २७६९ ॥ तत्राप्युत्पाद्यकथादिषु नित्या शक्तिरिष्टैव; किन्त्वसत्येवार्थे यो नियोगः पुरुषैः क्रियते, सोऽनित्यः, तद्वशादेव नित्यायां शक्तौ प्रतीतिविभ्रमो भवति, तस्मादसिद्धो दृष्टान्त इति ॥ • नन्वित्यादिना प्रतिविधत्ते
ननु बाह्यो न तत्रास्ति व्यक्तिः क्वार्थे प्रकल्प्यते ।
· विकल्पप्रतिबिम्बे चेत् तद्वद् वेदेऽपि शङ्कयते ॥ २७७० ॥ [G. 735] बाह्य इति । महाश्वेतादिरर्थः ॥ २७७० ।।
यदुक्तम्
तत्राह
“स्वर्गयादिसम्बन्धः केन दृष्टो ह्यतीन्द्रियः " (तत्त्व० २३३९) इत्यादि,
अतीन्द्रियार्थसम्बन्धां को वा शक्तिं प्रपद्यते । नातो वेदे नियोगोऽपि नरायत्तः प्रकल्प्यते ॥ २७७१ ।। वृद्धेभ्यो न च तद्बोधस्तेऽपि ह्यज्ञाः स्वतः स्थिताः ।
सम्भाव्या प्रतिपत्तिस्तु व्याख्यानात् पुरुषाश्रयात् ॥ २७७२ ॥ अनेनैतदाह - स्वयमेव भवता सामर्थ्याद् दर्शितम्, यथा - योऽयं वेदार्थप्रत्ययो भवति स पुरुषाश्रयाद् व्याख्यानादेवेति । तथा हि- प्रकृत्यैव तावत्" पूर्वा' शक्तिरतीन्द्रियार्थाश्रिता, ततश्चातीन्द्रियायां शक्तौ न पुरुषकृतो नियोगः शब्दस्य सम्भवति । नापि वृद्धेभ्यस्तस्याः
१. वाक्यता० - पा०, गा० । २. शब्दनित्यत्वं- जै० पुस्तके पाठा० । ४. महाश्वेतादित्यर्थ:- पा०, महाश्वेतादिरित्यर्थ:- गा० ।
३-३. तद्रशादेव नित्यायां शक्तो- पा०. गा। ५-५. तावदपूर्वे - गाः ।