________________
६२२
तत्त्वसंग्रहे सुबोधम् ।। २७५८॥ [G.733) यदुक्तम्- "सम्बन्धाकरणन्यायाद्वक्तव्या वाक्यनित्यता" इति (तत्त्व० २३३८), तत्राह
सम्बन्धस्य च नित्यत्वं प्रतिषिद्धं पुरा ततः।
सम्बन्धाकरणन्यायान्न युक्ता वाक्यनित्यता॥ २७५९॥ . भवन्मतेन वाक्यमेव न सम्भवति यस्य त्वया नित्यत्वं प्रसाध्यते?-इति मन्यमानो वाक्यं विचारयन्नाह
कतमस्य च वाक्यस्य नित्यत्वमुपगम्यते।
वर्णमात्रात्मनो वर्णक्रमस्याथ विभेदिनः ॥ २७६०॥ कदाचिद् वर्णमात्रमेवाविशिष्टं वाक्यं स्यात्, यद्वा-वर्णा एव विशिष्टाः क्रमवर्त्तिनो वाक्यम्, अथ वा– वर्णेभ्यो भेदिनः स्फोटाख्यस्य वाक्यत्वम्-इति पक्षत्रयम् ।। २७६० ।। तत्राद्ये पक्षे दोषमाह
वर्णानां क्रमशून्यानां वाचकत्वं न विद्यते।। नातस्ते तादृशा वाक्यं क्रमोऽप्येषां न विद्यते॥ २७६१॥ व्याप्तेर्नित्यतया चैत्रो देशकालक्रमो न हि। लिपिवत् फलपुष्पादिभेदवच्चोपपद्यते ॥ २७६२॥ स्वाभाविके क्रमे चैषां सर इत्येव सम्भवेत्। न' पुना' रस इत्यादिः स्थितक्रमविरोधतः ॥२७६३॥ स्थिता रेफादयश्चान्ते नैवान्यक्रमयोगिनः। जायन्ते वायुतो वर्णा नित्यैकत्वेन वर्णिताः ॥ २७६४॥ अन्यथा प्रत्यभिज्ञानं नित्यत्वैकत्वसाधनम्।
व्यभिचारि त्वयैवोक्तं भवेद् भेदेऽपि वर्तनात्॥ २७६५॥ द्वितीयेऽपि पक्षे प्राह-क्रमोऽप्येषां न विद्यत इति । तथा हि-द्विविध एव भावानां क्रमः-देशकृतो वा पिपीलिकालिप्यक्षरादिवत्, कालकृतो वा यथा बीजाङ्करकाण्डपुष्पफलादीनाम्। न तावदाद्यः क्रमो वर्णानां सम्भवति; व्याप्तेः, सर्वगतत्वाद् वर्णानाम् । न ह्याकाशवत् सकलदेशावष्टम्भेनावस्थितस्य देशविच्छेदकृतः क्रमो [ G.735। युक्तः; सर्वेषामेकनभोदेशावस्थानात्। नापि कालकृतः; नित्यत्वेन सर्वेषां समकालत्वात्। किञ्च–पुरुषकृतो वा क्रमो भवेत् ? स्वाभाविको वा? न तावत् पुरुषकृत इष्टः; वेदस्य पौरुषेयत्वप्रसङ्गात्, तत्प्रतिषेधस्यैव च साधयितुमिष्टत्वात् । अथ स्वाभाविकः? तदा सर सत्येव नित्यं भवेत्, न कदाचिद् स इति । न चापि प्रतिपदं भिन्ना वर्णाः' इत्यभ्युपेयम्; प्रत्यभिज्ञया नित्यैकत्वेन वर्णानां सिद्धत्वात् । अन्यथा प्रत्यभिज्ञानं व्यभिचारि स्यात् ।। २७६१-२७६५ ।। १. किं कदा०-गा।
२-२. न तु स्याद्-पा०, गा० । ३-३. पाठोऽयं पा०. गा० पुस्तकयोनास्ति।
४-४. वर्णानां नित्यत्वस्य-पा०, गा० । ५. इतोऽग्रे- 'तत्प्रतिषेधस्यैव च साधयितमिष्टत्वात्'- इति पा० गा० पुस्तकयोः प्रसङ्गविरुद्धः पाठो दृश्यते।