________________
श्रुतिपरीक्षा
६२१ अंशस्तस्मान्न जात्याख्यो नित्योऽत्र घटते घटे॥२७५०॥ "अनित्यता विकल्प्यैवम्" (तत्त्व० २३३४) इत्यादावाह
तादवस्थ्यप्रतिक्षेपमात्रं चानित्यतेप्सिता।
साध्यत्वेन प्रदीपादिस्तत्रोदाहरणं स्फुटम्॥२७५१॥ तादवस्थ्यप्रतिषेधमात्रमेवानित्यता साध्यत्वेनेष्टा, तत्रापि प्रदीप उदाहरणं साध्यान्वितमस्त्येवेति कुतः साध्यहीनता दृष्टान्तस्य!॥ २७५१॥ ज्वालादेरत्यादिना परमतेन प्रदीपादेरपि दृष्टान्तस्य साध्यहीनतामाशङ्कते
ज्वालादेरपि नाशित्वं न त्वसिद्धं प्रतिक्षणम्। लघवोऽवयवास्तत्र यान्ति देशान्तरं लघु ॥२७५२॥ प्रभूतं वर्तिदेशं हि तेजस्तिष्ठति पिण्डितम्। तत्र यावद् व्रजत्यूचं तावज्वालेति गम्यते॥२७५३॥ ततोऽपि यदपक्रम्य याति तत् स्यात् प्रभात्मकम्।
ततः परं तु यद् याति. तत् सौक्ष्यानावधार्यते॥२७५४॥ [ G. 732] तत्र हि ज्वालादेरवयवाः शीघ्रं शीघ्रं देशान्तरं व्रजन्ति, न तु प्रतिक्षणविशरारव: ॥ २७५२-२७५४॥ अथ युगपत् कस्मात् सर्वे न विसर्पन्ति? इत्याह- .
उत्तरावयवै रुद्धमार्गे पूर्वे न यान्ति च।
यथोत्तरे विमुञ्चन्ति पूर्वे यान्ति तथा तथा॥२७५५॥ ननु यदि प्रसर्पणधर्माणस्ते तत्समीपवर्ति तृणतूलादि किं न दहन्ति? इत्याह
संक्रान्तावपि नैतेषां तृणादौ वृत्तिसम्भवः । संहतावस्थायामेव लब्धवृत्तयो भवन्ति, न तु विप्रकीर्णावस्थायामिति भावः।। तदेतदित्यादिना प्रतिविधत्ते... तदेतत् कल्पनामात्रं प्रमाणानभिधानतः ॥२७५६ ॥
सत्यामपि चास्यां कल्पनायां न साध्यविकलता दृष्टान्तस्य। तथा हि-तादवस्थ्यप्रतिषेधमात्रमनित्यतासाध्यत्वेनेष्टेत्युक्तम्। तच्च तादवस्थ्यं प्रदीपादौ नास्त्येवेति कुतः साध्यविकलता!॥ २७५६॥ तथाप्यभ्युपगम्य दोषमाह
किञ्चाव्याहतशक्तीनां तृणतूलादिसङ्गतौ।।
दाहवृत्तिप्रसङ्गोऽयं पूर्ववन्न निवर्त्तते॥२७५७॥ अव्याहतशक्तीनमिति ज्वालाद्यवयवानाम्। पूर्ववदिति संहतावस्थादविशेषात् ।। अथ विशेषोऽभ्युपगम्यते, तदा नित्यत्वहानिप्रसङ्गो दुर्निवार:? इति दर्शयति
अन्यथा नित्यरूपा सा तेषु स्यात् कीदृशी तव।
शक्ताशक्तस्वभावस्य यदा भेदो व्यवस्थितः ॥ २७५८॥ १. असंस्तस्मात्र- जै० पुस्तके पाठा० ।
२. व्रजत्पूर्व- पा० ।
३. विशरणा:- गा०।