SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ६२० तत्त्वसंग्रहे प्रयत्नानन्तरज्ञानभवं कार्यं तस्यारम्भकता प्रतिसङ्ख्यादिनिरोधादेन सिद्धेति सम्बन्धः । यदि हि सौत्रान्तिकनयेन प्रतिसङ्ख्यानिरोधादिना व्यभिचार उद्भाव्यते, तदा न सिद्धो व्यभिचारः, तेषां मतेन प्रतिसङ्ख्यानिरोधादेः संवृतिसत्त्वात्। न च सांवृतं कस्यचित् कार्यस्यारम्भकं युक्तम् तल्लक्षणहानिप्रसङ्गात्। तथा हि-यदर्थक्रियाकारि तदेव परमार्थः; तदन्यत्तु संवृतिसत्इति परमार्थसंवृतिसतोर्लक्षणम् ।। २७४६ ।। . अथ वैभाषिकमतेन व्यभिचारः, तत्रापि यादृशो भवता नाशाद्यात्मको वर्णित: प्रतिसङ्ख्यानिरोधादिः, तादृग्वैभाषिकैर्नेष्ट इत्यादर्शयति न च नाशात्मकाविष्टौ निरोधौ साश्रवैर्यतः।.. "प्रतिसङ्ख्यानिरोधो यो विसंयोगः पृथक् पृथक् ॥ २७४७॥ उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसङ्ख्यया"। . __ (अभि० को० १.६) तस्मादज्ञानसिद्धान्ता: प्लवन्तेऽलीकमानिनः ।। २७४८॥ निरोधविति। प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधौ। कीदृशौ नामेष्टौ? इत्याह- साश्रवैर्यत इति। सक्लेशैर्वस्तुभिर्यो विभागः स प्रतिसङ्ख्यया प्रज्ञया प्रायत इति कृत्वा [ G. 731] प्रतिसङ्ख्यानिरोध उच्यते,, स च प्रतिसंयोगिद्रव्यं भिन्नः, अत एवाह-पृथक् पृथगिति। यावन्ति हि संयोगिद्रव्याणि तावन्ति विसंयोगद्रव्याणीति सिद्धान्तात्। अप्रतिसङ्ख्यानिरोधस्तु-अनागतानां धर्माणामुत्पादस्यात्यन्तविघ्नभूतो धर्मो विसंयोगादन्यो यः स उच्यते। स च न प्रतिसङ्ख्यया लभ्यते, किं तर्हि ? प्रत्ययवैकल्यात् । अतोऽप्रतिसङ्ख्यानिरोध उच्यते । यथोक्तम्-- ___ "प्रतिसङ्ख्यानिरोधों यो विसंयोगः पृथक् पृथक् । ___उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसङ्ख्यया॥" (अभि० को १.६) इति ॥ २७४७-२७४८॥ भवेन्नाम नास्वभावौ, तथापि न व्यभिचार इत्यादर्शयन्नाहं नास्वभावात् खनाशौ च प्रयत्नानन्तरीयको। कपालालोकराश्यादि तथाज्ञाननिबन्धनम्॥ २७४९॥ प्रयत्नानन्तरीयकविति । नेति सम्बन्धः । कुतः? अस्वभावात् । तथा हि-वस्तुसत्ताप्रतिषेधमात्रं नाशः, आकाशं न स्प्रष्टव्याभावमात्रम्, ततश्चैतौ खनाशौ द्वावपि नि:स्वभावौ, तत् कथमनयोः प्रयत्नानन्तरीयकता भवेत्; स्वभावस्यैवार्थक्रियाकारित्वात् ! किमिदानीं तर्हि विनाशादिविज्ञाननिबन्धनम् ? इत्याह- कपालेत्यादि। आलोकराशि: आलोकसङ्घातः । आदिशब्देन तमोराशिग्रहणम् ॥ २७४९ ॥ यदुक्तम्- "अविशेषेऽपि नानित्यं न नित्यं वस्तु तन्मम" (तत्त्व० २३३२) इत्यादि, तत्राह _ एकस्यार्थस्वभावस्य परिक्षिप्ताद् द्विरूपता। १. ०दज्ञात०-पा०, गा०/
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy