________________
६१९
श्रुतिपरीक्षा कारणैर्जन्यमानत्वादित्याद्यपि विकल्प्यते॥२७४०॥ नित्यनित्यार्थसम्बद्धचोदनाजनिता मतिः।
. पक्षश्चेदाश्रयासिद्धिः परं । प्रत्यनुषज्यते॥२७४१॥ नित्या चासौ स्वयम्, 'नित्येन 'चार्थेनाकृतिलक्षणेन सम्बद्धेति तथोक्ता । तया जनिता या बुद्धिः सा यदि पक्षः, तदा परं प्रति असिद्धो हेतुः ॥ २७३९-२७४१ ॥ यदुक्तम्- “अनित्यत्वं च नाशित्वम्" (तत्त्व० २३१४) इत्यादि, तत्राह
तादवस्थ्यं च नित्यत्वं तदन्यत्वमनित्यता।
तादवस्थ्यनिवृत्तौ हि किमवस्थितमिष्यते॥२७४२॥ किमवस्थितमिष्यत इति। अवस्थाया अवस्थातुरव्यतिरेकात्, तन्निवृत्तौ सामर्थ्यात् तस्यापि निवृत्तिः । अन्यथा यदेकयोगक्षेमं न भवति, तत् कथं तत्स्वभावं युक्तमिति भावः ॥ २७४२॥ यदुक्तम्- 'केवलैन्द्रियकत्वे च' (त्तत्त्व० २३१६) इत्यादि, तत्राह
केवलैन्द्रियकत्वे च हेतावत्र प्रकल्पिते। - जात्या बाधितया पूर्वं व्यभिचारो न गम्यते॥२७४३॥ पूर्वमिति सामान्यपरीक्षायाम् ॥ २७४३ ।।
यदि नाम जात्या व्यभिचारो नास्ति, तथापि सन्दिग्धव्यतिरेकोऽप्यनैकान्तिक एव?इत्याशङ्कय हेतोरैन्द्रियकत्वस्य प्रतिबन्धमादर्शयन्नाह
. स्वनि सीन्द्रियज्ञानहेतुरैन्द्रियको भवेत्।
न च नित्येऽस्ति हेतुत्वमिति तद्धि प्रसाधितम्॥ २७४४॥ [G.730] स्वनिर्भासिन इन्द्रियज्ञानस्य हेतुरर्थ ऐन्द्रियक उच्यते, नित्यस्य च क्रमयोगपद्याभ्यां नार्थक्रिया युक्तेति सिद्धः प्रतिबन्धः ।। २७४४ ॥ 'कार्या चैन्द्रियकत्वादौ" (तत्त्व० २३१९) इत्यादावाह
• सर्वेषां च प्रसिद्धेयमीदगर्थस्य हेतुता। .. धूमादावपि सर्वत्र विकल्पोऽयं समोऽन्यथा॥२७४५॥
ईदृक् चासावर्थश्चेति तथोक्तः। ईदृगिति अविचाररमणीयः। अन्यथा धूमादावपि विकल्पः शक्यते कर्तुम्-किमेको धूमो लिङ्गत्वेनोपात्तः, आहोस्वित् विज्ञानप्रकृतिकालादिपरिणामः, किं वाऽवयवी परमाणुभिरारब्धः; अनारब्धो वा - "इत्यादिविकल्पेऽन्यतरसिद्धतादिदोषः स्यात् ॥ २७४५ ।।
'प्रयत्नानन्तरज्ञानं कृतकानित्यसाधनम्' (तत्त्व० २३२१) इत्यत्राह
- प्रयत्नानन्तरज्ञानकार्यारम्भकता न च।
. प्रतिसङ्ख्यानिरोधादेः न सिद्धा सांवृतस्य नः॥२७४६॥ १-१. नित्यमेवार्थेन- पा० गा०। २. पा० पुस्तके नास्ति। ३. तादवस्थ्यानिवृतो-गा०. पा० । ४. ०शङ्कयते-जै०।
५. चैन्द्रियकत्वेऽपि-जै० ६. किमैन्द्रियको-पा०, गा०। . . ७-७. वेत्यादि:०-गा०/ विकल्पो०-पा०।