________________
६१८
तत्त्वसंग्रहे
[ G. 728] कार्यताव्यवहारस्याङ्गम्= कारणम् । किं तत् ? अन्वयव्यतिरेकाविति । सामानाधिकरण्येन सम्बन्धः । तदन्वयव्यतिरेकानुविधायित्वमात्रमेव तत्कार्यताव्यवहृतेरङ्गम्, नान्यत् । अतः कार्यताव्यवहारस्य निमित्तान्तरासम्भवो बाधकं प्रमाणमिति सिद्धा व्याप्तिः ॥ २७३२ ॥ स्यादेतत्-मा भूत् स्फोटस्य वाचकत्वम्, वर्णा एव नित्याः सन्तो वाचका भविष्यन्ति, ते च नित्याः प्रत्यक्षादिप्रमाणतः सिद्धाः ? इत्याह
}
अनित्येष्वेव वर्णेषु वाचकत्वे प्रसाधिते ।
प्रत्यभिज्ञानुमाने च निरस्ते नित्यसाधने ॥ २७३३ ॥
प्रत्यभिज्ञा चानुमानं चेति प्रत्यभिज्ञानुमाने । क्वचित् प्रत्यभिज्ञानानुमानमिति पाठ; तत्र समाहारद्वन्द्वोऽपि विधेयः । सहितशब्दलोपाद् विशेषणसमासो वा ।। २७३३ ।। 'स्ववाक्यदिविरोधश्च" (तत्त्व० २३०३) इत्यादावाहस्ववाक्यादिविरोधानामज्ञानाच्चोदना कृता ।
नित्यपक्षे तु सर्वे ते भवन्ति भवतां यतः ॥ २७३४ ॥ नित्या सती न वाग् युक्ता द्योतिकेत्युपपादितम् ।
•
44
आनुपूर्व्याद्ययोगेन नित्यं चानुपलम्भनात् ॥ २७३५ ॥
सर्वे त इति स्ववाक्यादिविरोधाः । आनुपूर्व्यार्दीति । आदिशब्देन क्रमेण. श्रुतिस्मृती गृह्येते । तथा हि-नित्यत्वान्न कालकृतानुपूर्वी । नापि देशकृता; व्यापितत्वात् । नाप्यभिव्यक्तिकृता; अभिव्यक्तेरपाकृतत्वात् । तथा ज्ञानजननेऽपि न नित्यानामुपयोगोऽस्तीति बहुधा निवेदितम्॥ २७३४-३५ ॥
यदुक्तम्–“वक्तव्यं चैष' कः शब्दः " ( तत्त्व० २३०९) इत्यादि । तत्राहधर्मभेदविकल्पेन याऽऽश्रयासिद्धिरुच्यते ।
साऽनुमालक्षणाज्ञानाद् धर्मित्वं भासिनो यतः ॥ २७३६ ॥
[ G.729] य एव वादिप्रतिवादिनो प्रतिभासवशाद् धर्मी सिद्ध:, स एव विशेषविवादाश्रयः, न तु स्वेच्छोपकल्पित:; तत्र विवादाभावात् । न हि स्वेच्छोपरचित्तधर्मिणि धर्मविशेषं कल्पयन् कश्चिन्निवार्यत इति । भासिन इति भासमानस्य । एतदेव दर्शयति
अविचारप्रसिद्धोऽर्थो योऽयं ज्ञानेऽवभासते ।
शनकादेरपि प्रोक्ता तावन्मात्रस्य धर्मिता ॥ २७३७ ॥ तत्रैव हि विवादो ऽयं सम्प्रवृत्तः प्रवादिनाम् । इच्छारचितभेदे तु न विवादोऽस्ति कस्यचित् ॥ २७३८ ॥
सुगमम् ॥ २७३६-२०१३८ ॥
अविशेषेण धर्मिणि निदिष्टे यद्विशेषेण कल्पनं तदेतज्जात्युत्तरमिति दर्शयन्नाहअतोऽविशेषनिर्दिष्टे विशेषेण विकल्पनम् ।
सर्वस्यैवानुमानस्य प्रवृत्तिं प्रतिबाधते ॥ २७३९॥
चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः ।
२. सोऽनुमा० - पा०, गा ।
१. चैष कतर :- गा० ।
१. विकल्पनं गा० ।