________________
श्रुतिपरीक्षा
६१७ पूर्वमिति त्रैकाल्यपरीक्षायाम्। अत्रैव बाधकं प्रमाणमाह-तत्स्थितावित्यादि। वर्णानुभवज्ञानकाले स्मरणोत्पत्तिप्रसङ्गो बाधकं प्रमाणम्। एकहेतुत इति अभिन्नकारणत्वात् ॥२७२७॥
अत्र शाब्दिकाश्चोदयन्ति-यद्येको नास्ति स्फोटाख्यः शब्दात्मा, तत् कथं गौरित्येकाकारा गोशब्दे बुद्धिर्भवतीति? अत आह
गौरित्येकमतित्वं तु नैवास्माभिर्निवार्यते।
तद्ग्राहीकार्थताभ्यां च शब्दे स्यादेकतामतिः॥२७२८॥ [G.727 ] एका मतिरस्येत्येकमतिः, तद्भावस्तत्त्वम्। तद्ग्राौकार्थताभ्यांचेति। यया एकया बुद्ध्या ग्राह्यस्तद्ग्राह्यः, एकोऽर्थः प्रयोजनं यस्य स तथोक्तः, तद्ग्राह्यश्चैकार्थश्चेति द्वन्द्वः, तयोर्भावौ तद्ग्राबैकार्थते, ताभ्यामुच्यते । एतदुनं भवति-एकबुद्धिग्राह्यत्वादेकसास्नादिमदर्थद्योतकत्वाच्चैको गोशब्द उच्यते इति ॥ २७२८॥ . एकमतित्वं च न सर्वत्र सिद्धमिति दर्शयति
शैघ्रयादल्पान्तरत्वाच्च गोशब्दे सा भवेदपि।
देवदत्तादिशब्देषु ‘स्पष्टो भेदः प्रतीयते॥२७२९॥ शैघ्यात्-द्रुतोच्चारणात्। अल्पान्तरत्वम् स्वल्पविच्छेदत्वम्। सेति एका मतिः। देवदत्तादिपदे तु प्रतिवर्णं शाब्दध्वनयः स्फुटतरं विच्छेदेन प्रतीयन्त इति पक्षैकदेशासिद्धमेकमतित्वम् ॥ २७२९॥ वर्णोत्थेत्यादिना प्रमाणयति
. वर्णोत्था चार्थधीरेषा तज्ज्ञानानन्तरोद्भवात्।
- येदृशी सा तदुत्था हि धूमादेरेव वह्निधीः॥२७३०॥
प्रयोगः-या बुद्धिर्यद्विज्ञानान्तरमुद्भाविता सा तत्समुत्थिता पारम्पर्येण, यथा धूमादिलिङ्गज्ञानाद्वयादिलिङ्गिधीः । वर्णविज्ञानानन्तरभाविनी चार्थधीरिति स्वभावहेतुः । कार्यताव्यवहारश्चात्र सांध्यते, तेन साध्यसाधनयोर्भेदः ॥ २७३०॥ असिद्धत्वमस्य परिहरन्नाह- .
न वर्णभिन्नशब्दाभज्ञानानन्तरभाविनी।
अर्थधीविद्यते तेन नान्यः शब्दोऽस्ति वाचकः।। २७३१॥ वर्णेभ्यो भिन्नो यः शब्दात्मा तदाभं यज्ज्ञानं तदनन्तरभाविनी न विद्यते', किं तर्हि ? वर्णविज्ञानानन्तरभाविनी। अतो नासिद्धो हेतुः । अनेन चोपलब्धिलक्षणप्राप्तस्यानुपलम्भादभावव्यवहारोऽपि दर्शितः ॥ २७३१॥ नाप्यनैकान्तिक इति दर्शयन्नाह
कार्यताव्यगराङ्गं सर्वत्रैव विनिश्चितौ। . अन्वयव्यतिरेकौ हि व्याप्तिस्तेनेह निश्चिता ॥ २७३२॥ . ... ताभ्याम्-पा०, गा०।
२. स्वल्पान्तरत्वम्-जै०। ३. शाक्कनया-पा०; ध्वनय:-गा। ५. ४. यादृशी-जै० पुस्तके पाठा०। ५. भिद्यते-जै०।