________________
६१६
तत्त्वसंग्रहे शतादिरूपं जायेत तत्समुच्चयदर्शनम् ॥ २७२२॥ ___ यदि हि सर्वमेव स्मरणं यथानुभवं क्रमेणैवं जायते, तदा क्रमानुभूतेषु शतादिषु युगपच्छतादिविकल्पो न स्यात्। शतकोट्यादिविकल्पानां चोत्पत्तिकाले भेदो न भवेत् ॥ २७२२॥ तेनेत्युपसंहरति
तेन श्रोत्रमनोभ्यां स्यात् क्रमाद् वर्णेषु यद्यपि।
पूर्वज्ञानं परस्तात् तु युगपत् स्मरणं भवेत्॥ २७२३॥ यद्येवम्, समुच्चयज्ञानमेवार्थप्रतीतिहेतुः स्यात्, न ते वर्णाः तेषां चिरनिरुद्धत्वात्, न चैतद्युक्तम्, यस्माच्छब्दादन्तरमर्थप्रतीतिर्भवन्तीत्याकुमारमेतत् प्रतीतम् ? इत्याशङ्कयाह
तदारूढास्ततो वर्णा न दूरार्थावबोधनात्।
. शब्दादर्थमतिस्तेन' लौकि कैरभिधीयते॥२७२४॥ [G. 726 ] तस्मिन् समुच्चयज्ञाने आरूढास्तदारूढाः । लौकिकैरिति स्वार्थतद्धितविधानम् ॥ २७२४॥
नन्वेवमपि तेषां चिरनिरुद्धत्वादत्यन्तासत्त्वमेवेति कथं तदारोहणं भवेत् ? इत्याशङ्कयाह
आकारवति विज्ञाने सर्वमेतच्च युज्यते। निराकारे कस्मान्न युज्यते? इत्याह
- अन्यथा हि विनष्टास्ते भासेरन् स्मरणे कथम्॥२७२५॥
ततश्च यदेतत्- "अन्त्यवर्णे हि विज्ञाते" (श्लो० वा०, स्फ० १२५) इत्यादिना कुमारिलेन स्फोटवादिनं प्रति समुच्चयज्ञानं वर्णितम्, तदस्मन्मत एव युज्यते; न तु भवतां मीमांसकानां निराकारवादिनां मत इत्युक्तं भवति ॥ २७२५॥
अथ वर्णास्तिरोभूतव्यक्तयो विदिताः पुरा।
स्मर्यन्तेऽवस्थिता एव? न; स्पष्टाभप्रसङ्गतः ॥२७२६॥ ननु च मीमांसकानामपि युज्यत एव, न हि तेषां मतेन वर्णा विनष्टाः, येन न भासेरन्, किं तर्हि ? तिरोभूताभिव्यक्तयः सन्त्येव? इत्येतदथेत्यादिनाऽऽशङ्कय नेत्यादिना परिहरति । यदि हि त एव वर्णाः पूर्वमनुभूताः सन्तः पश्चात् तिरोभूतव्यक्तयः समुच्चयज्ञानेन गृह्येरन्, तदाऽऽत्मानुभवज्ञानवत् तत्समुच्चयज्ञानं स्पष्टाभं प्राप्रोति; आकारस्य बाह्यगतत्वात् तस्य चैकरूपत्वात्। किञ्च-यदि तिरोभ्तव्यक्तयः, कथं भासेरन्; व्यक्तेरुपलब्धिस्वभावत्वात्!॥ २७२६॥
अपि च-यद्यतीतस्यावस्थितिः सम्भवेत्, तदैतत् स्यात्; यावताऽतीतस्यावस्थित्यभावादेव न युक्तं तस्य प्रतिभासनमिति दर्शयति
अपास्ता च स्थितिः पूर्वं तत्स्थितौ स्मरणं भवेत्।
वर्णानुभवविज्ञानकाल एवैकहेतुतः ॥ २७२७॥ १. चोत्पत्तिकालो-जै०।
२. ०दथ मति०-पा०, गा०।