________________
श्रुतिपरीक्षा
६१५ चिदेकस्य पुनः पुनरावृत्त्या किं नाभिव्यक्तिः क्रियते, न हि तेनापादिता सती व्यक्तिर्नापादिता भवेत् । तथा हि-तव्यक्त्यावर्त्तनमात्रफलान्युत्तरोत्तरवर्णोच्चारणानि; समानशक्तिकत्वात् सर्वेषाम् । तच्चावर्त्तनमेकेनैव पुनः पुनरावर्त्यमानेन कर्तुं शक्यत इति शेषवर्णोच्चारणवैयर्थ्यम्। नाप्युत्तरोत्तरवर्णानां भिन्नशक्तिकत्वमभ्युपगन्तव्यम्; निरंशके विशेषान्तरस्याधातुमशक्यत्वाद् विशेषान्तरकरणासम्भवे भिन्नशक्तिकल्पनावैयर्थ्यप्रसङ्गात् ॥ २७१७ ॥ एतच्च सतामभिव्यक्तौ सर्वं सम्भवेत्, सैव तु न सम्भवतीति दर्शयन्नाह
विषयेन्द्रियसंस्काररूपा व्यक्तिश्च वर्णवत्।
अस्यापि प्रतिषेद्धव्या तदाभासेऽपि चेतसि॥२७१८॥ वर्णवदिति । यथा वर्णेषु विज्ञानजननयोग्यायोग्यस्वभावविकल्पेन विषयेन्द्रियसंस्काररूपाऽभिव्यक्तिर्दूषिता, तथेहापि दूषणीयेत्यर्थः । तदाभासेऽपति स्फोटाभासेऽपि । अयं चाभ्युपगमवादः । एतदुक्तं भवति-यदि हि वर्णव्यतिरेकेणापरः स्फोटाख्यः शब्दात्माऽवभासेत, ततोऽस्याभिव्यक्तिः सम्भवेद्; व्यक्तेरुपलब्धिरूपत्वात्, यावता नावभासत इति पूर्वमावेदितम्। अवभासतां नाम, तथापि प्रकृत्योपलभ्यानुपलभ्यस्वभावस्योभयथाप्यभिव्यक्तिर्न युक्तेति ॥ २७१८॥ तस्मादित्यादिनोपसंहृत्य विनापि स्फोटेनार्थप्रतिपत्तेरुपपत्तिक्रमं दर्शयति
तस्मात् प्रत्यक्षतः पूर्वं क्रमज्ञानेषु यत् परम्। समस्तवर्णविज्ञानं तदर्थज्ञानकारणम्॥२७१९ ॥ अन्त्यवणे हि विज्ञाते सर्वसंस्कारकारितम्।
स्मरणं योगपद्येन सर्ववर्णेषु जायते॥२७२०॥ FG.725] ननु च क्रमवर्त्तिनो हि वर्णाः क्रमेणैव चानुभूताः, यथा वाऽनुभवं च स्मरणम्, तत् कथं समस्तवर्णनि सि स्मार्त्तज्ञानमेकं युज्यते स्फोटमन्तरेण, न चाक्रमे ज्ञाने क्रमिणां वर्णानां प्रतिभासो युक्तः? इत्याशङ्कयाह- अन्त्यवर्णे हीत्यादि। अनैनैतदाह-प्रथममनुभव:, ततस्तत्समनन्तरभावीनि स्मरणानि यथानुभवं क्रमेणैव जायन्ते, ततः स्मरणेभ्यः उत्तरकालं युगपत् समस्तवर्णाध्यवसायि समुच्चयज्ञानमपरं स्मार्त्तमुत्पद्यते; यथा परिदृष्टार्थाध्यवसायित्वात् ॥ २७१९-२७२०॥ एतच्च सर्ववादिनां प्रसिद्धम्, न मयैव कल्पितमिति दर्शयति
सर्वेषु चैतदर्थेषु मानसं सर्ववादिनाम्।
इष्टं समुच्चयज्ञानं क्रमज्ञातेषु सत्स्वपि॥२७२१॥ एतदिति समुच्चयज्ञानम् ।। २७२१ ॥ एतच्च युक्त्युपेतत्वादवश्यमभ्युपेयमिति दर्शयति
न चेत् तदभ्युपेयेत क्रमदृष्टेषु नैव हि। १. जै० पुस्तके द्विरावृत्तोऽयं पाठः।
२. न च-गा।
३. सत्यामभिल-गा।
५. यथानुभव-पा०, गा० । ६. ज्ञाते-पा०, गा०। ७. अनेनैव तदाह-पा०, न च तदाह-गा०
४. यत्पदम्-पा०, गा०॥