________________
६१४
तत्त्वसंग्रहे ऽजाताव्यक्ताभिमतस्यापि रूपस्याबहिर्भावात्। ते जातिव्यक्ती सर्वस्यैव स्याताम्। ततश्च शेषवर्णादिप्रयोगवैयर्थ्यं स्यात् ।। २७१२-२७१३ ।। सावयपक्षेऽपि दूषणमाह
सांशत्वेऽपि यथा वर्णाः क्रमेण प्रतिपादकाः।
स्फोटांशा अपि किं नैवं किमदृष्टाः प्रकल्पिताः॥२७१४॥ ते हि स्फोटांशाः प्रत्येकमनर्थका वा स्युः? सार्थका वा? प्रथमे पक्षे क्रमभावित्वाद् वर्णात्मवदप्रतिपादकत्वप्रसङ्गः। कल्पितं च वाचकत्वं स्यात्; अताद्रूप्ये ताद्रूप्यात्। तथा हि-अर्थवानेकात्मा वाक्यमुच्यते, नावयवाः स्वयमनर्थकाः, तेषु स आत्मा कल्पनारोपित: स्यात्, माणवकादिषु सिंहतादिवत्। सति च कल्पिते वाचकत्वे वरं वर्णभागा एव सन्तु वाचकाः, किमदृष्टाः स्फोटांशाः कल्प्यन्त इति । अथ' सार्थकत्वं तदाऽनेककल्पना निरर्थिका। तथा हि-परिसमाप्तार्थं शब्दरूपं वाक्यमुच्यते, प्रत्येकं चेदर्थवन्तोऽवयवाः स्युः, तदा तावन्त्येव तानि वाक्यानि जातानीति नैकोऽनेकावयवात्मा सिध्यति। एकावयवप्रतिपत्तौ च सत्यां वाक्यार्थप्रतिपत्तिप्रसङ्गः । यथोक्तम्
"प्रत्येकं सार्थकत्वेऽपि मिथ्याऽनेकत्वकल्पना। . एकावयवगत्या च . वाक्यार्थप्रतिपद् भवेत् ॥"
(प्र० वा० २.२४९-५०) इति ॥ २७१४ ॥ यदुक्तम्- 'नहि क्रमेण युज्यते जातिव्यक्ती निरंशके' इति (तत्त्व० २७१३) इति, अत्र परस्य परिहारमाशङ्कते
जातौ व्यक्तौ कृतायां चेदेकेन ध्वनिना सकृत्।
नितरां व्यक्तिसिद्धयर्थं वर्णानन्यान् प्रयुञ्जते॥२७१५॥ यद्यप्येकेन ध्वनिना जातिः, व्यक्तिर्वा सर्वात्मना'स्फोटस्य कृता, तथापि नोत्तरध्वनि प्रयोगवैयर्थ्यम्, तस्य स्पष्टव्यक्त्यर्थत्वात्। तथा हि थोक एव पुन:पुनरावर्त्यमानो [ G. 7241 व्यक्तीभवति, न च सकृदुच्चारणात् ॥ २७१५॥
ननु पुनः पुनरावृत्त्या तस्य विशेषान्तरमाधीयते, अथ च न पुनरावृत्तेर्वैयर्थ्यम्, एवमिहापि नोत्तरध्वनिवैयर्थ्यं भविष्यति? एतदेव दर्शयति
यतो दुरवधाराऽस्य प्रकृतिः सा तथा कृता।
समानशक्तिकैर्वर्णैर्भूयोऽपि व्यज्यते परैः ॥ २७१६॥ दुरवधारेति । अवधारयितुमशक्या ॥ २७१६ ।। तस्यैवेत्यादिना प्रतिविधत्ते
तस्यैवान्यस्य वैकस्य किं नावृत्तौ पुनः पुनः।
व्यक्तिरावर्त्तते तस्य नन्वेवमविशेषतः॥२७१७॥ नन्क्त्यिामन्त्रणे । तस्यैव-प्रथमोच्चरितस्य वर्णस्य, अन्यस्य वा-तदन्तर्गतस्य, कस्य१ अथसाथकत्वं-जें।
२. ज्ञातानाति-पा। : नेकानेकावयवात्मा-पा