________________
श्रुतिपरीक्षा
६१३ तद्भाव्यर्थेषु विज्ञानं शक्तकारणसन्निधेः ॥ २७०७॥ [G. 722 | अथ सत्तामात्रेण चक्षुरादीन्द्रियवदज्ञातोऽप्यर्थप्रतीतिहेतुर्भवेत् ? एवं तर्हि तद्भावज्ञानं सर्वदा भवेत्। तथे सङ्केतग्रहणादिकमन्तरेण तद्भावि ज्ञानं स्यात्। एतदेव संकेतेत्यादिना प्रदर्शयति ॥ २७०६-२७०७॥ तत्रोपपत्तिमाह
तथा हि नित्यसत्त्वोऽयं न चापेक्षाऽस्य काचन।
ध्वनिसंकेतवर्णेश्च तद्व्यक्ति प्यदर्शनात् ॥ २७०८॥ अथापि स्यात्- सङ्केताभिव्यक्त एवासावर्थप्रतीतिहेतुरिष्टः; न सत्तामात्रेण, तेन न भवति यथोक्तदोषप्रसङ्गः? इत्याह- ध्वनिसंकेतवर्णरित्यादि। अदर्शनादिति अनुपलब्धेः । अदृश्यत्वेनाभिमतत्वाच्च ॥२७०८॥ एतदेव ज्ञानं हीत्यादिना दर्शयति
ज्ञानं हि व्यक्तिरित्याहस्तज्ज्ञानं न च विद्यते।
ततो निरर्थिकैवास्य व्यङ्गेकस्यापि कल्पना॥२७०९॥ स्यादेतत्, ‘भासमानो न लक्ष्यते' इत्येतदसिद्धम्, तथा हि-पूर्वपूर्ववर्णाहितसंस्कारा' यामावृत्तसंस्कारपरिपाकायां बुद्धौ शब्दोऽकलः प्रतिभासत एव? इत्याह
"नादेनाहितबीजायामन्त्येन ध्वनिना सह। आवृत्तपरिपाकायां बुद्धौ शब्दोऽवभासते"॥२७१०॥
(वा० प० १.८४) : इत्येतदपि तेनात्र निर्निमित्तं प्रकल्पितम्।
तस्यामपि न शब्दोऽन्यो भासमानो हि लक्ष्यते॥२७११॥ आवृत्तः सञ्जातः सर्वबुद्ध्याहितः संस्कारपरिपाको यस्यां बुद्धौ सा तथोक्ता। निर्निमित्तमिति । वर्णा एव हि यथानुभवं पश्चात् सङ्कलनाप्रत्ययेन स्मार्तेवसीयन्त इत्यभिप्रायः। तथा हि-नैवान्त्यवर्णप्रतिपत्तेरूय॑मन्यमकलं शब्दात्मानमुपलक्षयामः; नापि स्वयमयं वक्ता विभावयति । केवलमेवं यदि स्यात् साधु मे स्यादिति कल्याणकामतामूढमतिरन्त्यायां बुद्धौ समाप्तकालः शब्दो भातीति स्वप्रायते ॥ २७१०-२७११॥
___ एवं तावन्नित्यपक्षे दूषणमुक्तम्। इदानीं नित्यानित्यपक्षयोरपि साधारणं दूषणमनवयवपक्षे प्राह
जन्यतां व्यज्यतां वापि ध्वनिभिः क्रमभाविभिः । येऽपि स्फोटस्य मन्यन्ते क्रमस्तेषां विरुध्यते॥२७१२॥ न हि क्रमेण युज्यते जातिव्यक्ती निरंशके।
एकरूपाबहिर्भावात् ते स्यातां सर्वथैव हि ॥२७१३॥ [G.723 ] वैभाषिका हि केचित् पदकार्याभिधानेन वाक्यस्फोटमनित्यत्वाजन्यं प्रतिपन्नाः । निरंशकइति निरवयवे वस्तुनि। एकरूपाबहिर्भावादिति । एकस्माद् रूपाज्ज्ञाताद्, व्यक्ताद्वा१-१. च -जै०।
२. ०रत्यायां-पा०।