________________
६१२
तत्त्वसंग्रहे
तत्संग्राहीणि इति, पश्चात् तत्पुरुषः कर्मधारयो वा । समुत्थापकान्यपेक्ष्य जन्यर्तेति । हेतुग्राहीण्यनुभवस्मृतिज्ञानरूपाण्यपेक्ष्य हेतुर्तेति ॥
स्फोटवादखण्डनम् - एवमानुपूर्वीमर्थान्तरभूतां निराकृत्य वैयाकरणाद्युपकल्पितं ध्वनिभ्योऽर्थान्तरभूतं वाचकं शब्दात्मानं स्फोटमधुना निराचिकीर्षुराह
अत एव निरर्थेह स्फोटस्यापि प्रकल्पना ॥ २७०३ ॥ सार्थप्रतिपत्त्यर्थ शाब्दिकैः परिकल्पितः । वर्णा एव च तच्छक्ता इत्यनर्थाऽस्य कल्पना ॥ २७०४ ॥
[ G. 721 ] तत्र किमयं स्फोटात्मकः प्रत्यक्षेण सिद्ध: ? उतादृश्यानुमानेन ?; तत्रापि नित्यो वा कैश्चिद्वैभाषिकैः कल्पित इव ? अनित्यो वा ?; तथैव कश्चिन्निरवयवी वा ? अवयवी वा स्याद् ? -- इति परीक्षितव्यः । तत्र न तावत् प्रथमः पक्ष इति दर्शयति-
दृश्यस्यादृष्टितश्चास्य नास्तिताऽध्यवसीयते ।
न हि वर्णेभ्यो व्यतिरिक्तो निरवयवोऽपरः शब्दात्मा श्रोतुश्चेतसि प्रतिभासमानः समालक्ष्यते; यत उपलब्धिलक्षणप्राप्तस्यानुपलब्धिस्वभाव:, तस्मात् प्रत्युत तस्य नास्तिता सिध्येत् । अथ द्वितीय: पक्ष: ? तथापि भावधर्मो वा हेतुर्भवेद्, अभावधर्मो वा, उभयधर्मो वा - इति विकल्पाः । आद्ये पक्षे स्फोटाख्यधर्मिधर्मो वा हेतुर्भवेत्, अन्यधर्मिधर्मो वा । तंत्र तस्यैव स्फोटाख्यस्य धर्मिणोऽसिद्धत्वात् तस्य धर्मस्याप्यसिद्धत्वान्न तद्धर्मस्तावद्धेतुः । अन्यधर्मोऽपि न हेतुः; अपक्षधर्मत्वात् । यथा 'अनित्यत्वसाध्ये शब्दे चाक्षुषत्वम्' । अभावधर्मोऽपि न भवति; तस्य विपरीतसाधकत्वात् । उभयधर्मोऽपि न भवति; तस्य व्यभिचारित्वात् । स्वभावहेतोर्वा तस्य सिद्धिर्भवेत् ? कार्यहेतोर्वा ? न तावदाद्यः पक्षः; तस्यातीन्द्रियत्वात् तत्स्वभावासिद्धेः। सिद्धौ वा व्यर्थो हेतुः पर्येषणे, यत्तत्स्वभावस्य सिद्धत्वात्, तदर्थत्वाच्च प्रयासस्य । नापि द्वितीयः पक्षः; अतीन्द्रियेण सह कार्यकारणभावसिद्धेः ।
अथापि स्यात् - यथा श्रोत्रादिज्ञानस्य कादाचित्कत्वेन कारणन्तरसापेक्षत्वसिद्धौ सामर्थ्याच्छ्रोत्रादेरिन्द्रियस्य सिद्धिर्भवति, तथाऽत्राप्यर्थप्रतीतिं धर्मिणीं कृत्वा, वर्णाविशेषेऽपि सरः, रसः— इत्यादावर्थप्रतीतिभेदात् स्फोटाख्यं कारणान्तरं कल्पयिष्याम इति ? एतदप्यसम्यक्; वर्णाविशेषस्यासिद्धत्वात् । तथा हि साम्प्रतमेव प्रतिपादितम्-वर्णा एव प्रतिपदं भिन्नाः कार्यकारणभेदादर्थप्रतीतौ समर्था इत्यनर्था कल्पनेति । एवमनुमेयत्वे दोषा वाच्या इत्यभिप्राय: ॥
अथापि स्यात् – नासावनुमेयः; किं तर्हि ? अत्यन्तादृश्यः ? इत्याहअदृश्यत्वे तु नैवायं लिङ्गवज्ज्ञापको भवेत् ॥ २७०५ ॥
यथा लिङ्गमज्ञातं ज्ञापकं न भवति, तद्वदयमपि स्यात्; अज्ञातत्वात्॥ २७०५ ॥ सत्तामात्रेण तज्ज्ञानं हेतुभावव्यवस्थितेः ।
तस्य ज्ञापकतेष्टा चेन्नेत्रवत् सर्वदा भवेत् ॥ २७०६ ॥ सङ्केतानवबोधेऽपि वर्णानामश्रुतावपि ।
प्रथा चापडं चय (घट) स्यानित्यत्वादौ साध्ये- पार, गा ।
—
२. स..... नव०-पा० ।