________________
श्रुतिपरीक्षा
६११ वर्ण उत्पद्यते तस्य श्रुतिस्तत्समनन्तरम् ॥ २६९९॥ अर्थापत्तिरपाकृतेति । "तथा हि हस्तकम्पादेः" (तत्त्व० २६१६) इत्यादिना व्यभिचारस्य बाधकस्य च प्रमाणस्य वर्णनात् । अनित्येषु अर्थप्रतीतिरूपत्वं साधितमिति सामान्येन प्रतीतावत्यन्ताभेद इति एवं प्रतिपदं भिन्नत्वात् विशिष्टानुपूर्वीका अनित्या वर्णाः मदो दमः, सरो रस इत्यादौ प्रतीतिभेदनिबन्धनयुक्ताः । न तु नित्याः, तेषां सर्वत्रैकरूपत्वात् । न चानुपूर्व्य तेभ्यो व्यक्त्यन्तरमित्येत् सर्वं प्रतिपादयन्नाह- यो यद्विवक्षेत्यादि । अयमत्र तावत् समुदायार्थ:वक्तृसन्ताने प्रतिवर्णं तत्समुत्थापकानि ज्ञानानि पूर्वपूर्वसमनन्तरप्रत्ययजन्यानि विवक्षातो भवन्ति, ततश्च वर्णाः, ते च श्रोतृसन्तनिपूर्वपूर्ववर्णग्राहिविज्ञानसहकारिणः स्वविषयाभिज्ञानानि क्रमवर्तीनि जनयन्ति, साक्षात्, ततश्च स्वस्वविषयां स्मृतिं क्रमभाविनीं जनयन्ति [ G. 720 ] पारम्पर्येण, ततश्च वक्तृसन्तानभावीनि स्वसमुत्थापकानि ज्ञानान्यपेक्ष्य तेषां जन्यता, श्रोतृसन्तानभावीनि तान्यपेक्ष्य हेतुता, सैव तेषामानुपूर्वी, नान्या। कारणकार्यभेदाच्च प्रतिपदं वर्णानां भिन्नस्वभावत्वात् सरो रस इत्यादौ प्रतीतिभेदो युज्यते, न तु नित्यानाम्; तेषां सर्वदा सर्वत्रैकरूपत्वात्। नाप्यानुपूर्वी तेभ्योऽर्थान्तरभूतेष्टा; अर्थान्तरत्वेऽपि सम्बन्धासिद्धेरित्यभिप्रायः।
अवयवार्थस्तूच्यते-वर्ण उत्पद्यत इति सम्बध्यते । सदा सम इतत्यादौ सकारादेः परोऽकारादिः, सकारविवक्षा सम्भूतविवक्षान्तरतस्ततः उत्पद्यते। यस्य सकारादेर्विवक्षा यद्विवक्षा, ततः सम्भूतं यद्विवक्षान्तरं तत्तथोक्तम् । एतदुक्तं भवति-वक्तसन्ताने पूर्वपूर्ववण'समुत्थापकविवक्षासम्भूतं यदुत्तरोत्तरं विवक्षान्तरम्, तत उत्तरोत्तरो यो वर्ण उत्पद्यते स स्मृति कुरुतइति वक्ष्यमाणेन सम्बन्धः । एवं तावद् वक्तृसन्तानवर्तिसमुत्थापकविवक्षावशाद् वर्णानां च जन्यत्वं प्रतिपाद्य श्रोतृसन्तानवर्त्तिज्ञानं प्रति कारणत्वं प्रतिपादयति-तस्येति। य इति यो निर्दिष्टः स सम्बध्यते । तस्य श्रुतिरुत्पद्यत इति सम्बन्धः । समनन्तरमिति अव्यवधानेन ।
एवं श्रोतृज्ञानहेतुत्वं प्रतिपाद्य साम्प्रतं स्मृतिहेतुत्वं प्रतिपादयति- पूर्ववर्णविदुद्भूतसंविनातिद्रुतश्रुतिः ।
सोऽपेक्ष्य तत्स्मृतिं पश्चात् कुरुते स्मृतिमात्मनि॥ २७००॥ पूर्ववर्णानां वित्-ज्ञानम्, तेन उद्भूता संवित्=अनुभवो यस्य स तथोक्तः । नातिद्रुतश्रुतिरिति । द्रुतश्रुतेः स्मृतिजननासमर्थत्वात्। स इति। उत्तरोत्तरो वर्णस्तु तत्स्मृतिम् = पूर्वपूर्वस्मृतिम्, अपेक्ष्य तत्सहकारेणेत्येतत्, स्मृतिम्= स्वस्वविषयाम् ॥ २७०० ॥
तत्समुत्थापकग्राहिज्ञानानि प्रति जन्यता। हेतुता वाऽनुपूर्वीयं वर्णेषु पुरुषाश्रया।। २७०१॥ अत: प्रतिपदं भिन्ना वर्णा इति परिस्फुटम्। दमो मदो लता ताल इत्यादिक्रमभेदतः ॥ २७०२॥
ईदृशेन क्रमेणैते त्वर्थभेदोपपादकाः। . समुत्थापकानि च ग्राहीणि चेति द्वन्द्वः । तेषां वर्णानाम्, तानि वा समुत्थापकग्राहीणि=