________________
६१० :
तत्त्वसंग्रहे [ G. 718) द्विष्ठत्वात् सम्बन्धस्य, जातीनां नित्यत्वाभ्युपगमाच्च तत्सम्बन्धस्वभावानां व्यक्तीनामपि नित्यत्वं प्राप्नोति; अन्यथा हि जातीनां तत्सम्बन्धस्वरूपता न स्यात्। तथा व्यक्तीनामनित्यत्वाभ्युपगमात् तत्सम्बन्धस्वरूपाणां जातीनामप्यनित्यत्वं प्राप्नोति। तर्हि तत्सम्बन्धिनां च स्वरूपेण व्यक्तीनामनित्यता सेत्स्यति यदि तत्सम्बन्धादीनां जातीनामप्यनित्यता भवेत् । अन्यथा हि द्वितीयसम्बन्धिन्यविकले सति न युक्तमपरस्य वैकल्यम्; सम्बन्धस्वभावहानिप्रसङ्गात् ॥ २६९०-२६९१॥ दूषणान्तरं पूर्वोक्तं वारयन्नाह
अभिव्यक्तेरयोगे च पुरस्तादुपपादिते। .
इत्थं प्रतीयमानाः स्युवर्णास्ते नावबोधकाः ॥ २६९२॥ इति षष्ठ्यन्तः ॥ २६९२॥ यदुक्तम्- "कालश्चैको विभुर्नित्यः' (तत्त्व २२९९) इत्यादि, तत्राह
कालोऽप्येको विभुर्नित्यः पूर्वमेव निराकृतः। .. वर्णवत् सर्वभावेषु व्यज्यते न च केनचित ॥ २६९३॥ वर्णेषु व्यज्यमानस्य नास्य प्रत्यायनाङ्गता। . अन्याविशेषान्नान्यत्र सद्भावाच्चास्य नित्यता॥२६९४ । तदानुपूर्वी वर्णानां ह्रस्वदीर्घप्लुताश्च ये। कालस्य प्रविभागास्ते न युक्ता ध्वन्युपाधयः ॥ २६९५॥ तस्मान्न पदधर्मोऽस्ति नित्यस्ते कश्चिदीदृशः। तेनानित्यं पदं सिद्धं वर्णानित्यत्ववादिनाम्।।२६९६ ॥ परधर्मेऽपि चाङ्गत्वं भवेदश्वजवादिवत्।
यदि व्यक्तिः प्रकल्प्येत व्यञ्जकैः प्रत्ययैरिह॥ २६९७॥ .. पूर्वमेवेति षट्पदार्थपरीक्षायाम्। व्यज्यते न च केनचिदिति । असत्त्वादेव, सत्त्वेऽपि नित्यस्य व्यक्तेर्निराकृतत्वात्। अन्याविशेषादिति । [G.719] अन्यस्मादविशेषो अन्याविशेषः । तथा हि- बीजाङ्करलतादिषु यो व्यज्यते कालस्यात्मा, ततस्तस्य वर्णेषु व्यंज्यमानस्य कालात्मनो न कश्चिद् विशेषोऽस्ति; एकस्य सद्भावात्, अन्यथा अनेकत्वप्रसङ्गः । अन्यत्र सद्भावात् तस्य नित्यतेति चेत् ? अन्यस्यायोगादिति चिन्त्यते। दिति तस्मात् । न युक्ता इति। कालस्यासत्त्वात्। सत्त्वेऽप्यभ्युपगतमविभागत्वमिति ।
"परधर्मेऽपि०" (तत्त्व० २३०२) इत्यादावाह- परधर्मेऽ पीत्यादि। शेषं सुबोधम् ॥ २६९३-२६९७ ॥
नित्यतायां तु सर्वासामर्थापत्तिरपाकृता। अर्थप्रतीतिरूपत्वमनित्येषु हि साधितम् ॥ २६९८ ॥
यो यद्विवक्षासम्भूतविवक्षान्तरतस्तत: । १. प्रतायमानाः-पा०, गा०।
२. व्यक्त्यन्तस्य-पा० . ३. युज्यते-जै०। ४. नाङ्गत्वं-गा।
५. पाठोऽयं भोटभाषानवादे नास्ति। ६. स्थित:-पा०।