________________
श्रुतिपरीक्षा
६०९ तन्न ताल्वादिसंयोगविभागक्रमपूर्वकम्।
ध्वनीनामानुपूयं ते जात्या चोभयनित्यता॥ २६८४॥ तदिति तस्मात् ॥ २६८४ ॥ [G.717 ! यदप्युक्तम्- "यथैव भ्रमणादीनाम्" (तत्त्व० २२९५) इत्यादि, तत्र भ्रमणादीनमित्यादिना दृष्टान्तासिद्धिमाह
यथा न भ्रमणादीनां भागाः जात्युपलक्षिताः।
क्रमानुवृत्तिरेवं नो ताल्वादिध्वनिवर्णभाक्॥२६८५॥ जातेर्निरस्तत्वादिति भावः ॥ २६८५ ॥ यदुक्तम्- "व्यक्तीनामेव वा०" (तत्त्व० २२९६) इत्यादि, तत्राह
व्यक्तीनामपि नो सौक्ष्याजातिधर्मावधारणम्। यदुक्तम्-"तद्वशेन च०" (तत्त्व० २२९६) इति, तत्राह
तद्वशेन न वर्णानां व्यापित्वेऽपि क्रमग्रहः ।। २६८६ ।। यदप्युक्तम्- "एवं ध्वनिर्गुणान्" (तत्त्व० २२९७) इत्यादि, तत्रोच्यते
तन्न ध्वनिगुणान् सर्वानित्यत्वेन व्यवस्थितान्।
वर्णा अनुपतन्तः स्युरर्थभेदावबोधिनः ।। २६८७॥ यदुक्तम्- 'तेषां च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः" (तत्त्व० २२९३) इत्यादि, तत्राभ्युपगम्य जातिदूषणमाह- . .
. अन्यच्च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः।
यावद्वर्ण ' प्रवर्तन्ते व्यक्तयो वा तदन्विताः॥२६८८॥
इति व्यञ्जकसद्भावान्नित्यं शब्दोपलम्भनम्। . अतो व्यक्तिक्रमात्माऽपि युक्तो वर्णक्रमो न ते॥२६८९॥ .
अयं च निपातसमुदायो वाक्योपन्यासे द्रष्टव्यः । इतिशब्दो हेतौ। तेनायनर्थो भवतियस्माज्जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः स्थिताः, तेन* नित्यव्यक्तिस्थितत्वात् शब्दोपलम्भो नित्यं प्राप्नोति। व्यक्तेः क्रमाभावात् तदात्मा शब्दक्रमोऽपि न युक्तः । तद्युक्तमेवोक्तम्व्यक्तमेवानुपूर्व्यमिति ॥ २६८८-२६८९॥ तत्र जातिव्यक्त्योः सम्बन्धमभ्युपगम्य दोषमाह
व्यक्तिसम्बद्धरूपाणां जातीनां च व्यवस्थितौ। व्यक्तीनामपि . नित्यत्वं दुर्वारमनुषज्यते ॥ २६९० ॥
जातिसम्बन्धरूपाणां व्यक्तीनां वाऽनवस्थितौ ।
. जातीनामप्यनित्यत्वमकामस्यापि ते भवेत् ॥ २६९१॥ १. ०मानुपूव्ये-जै० पुस्तके पाठा० ।
२-२. पा०, गा० पुस्तकयो स्ति। ३. भागजात्यु०- जै०।
४. पा०, गा० पुस्तकयो स्ति * इत आरभ्य २७०५तम कारिकाव्याख्यानं यावत्, अस्माकं त्रिष्वपि आदर्शपुस्तकेषु तत्र तत्र बहूनि वाक्यानि त्रुटितानि दृश्यन्ते। तान्यस्माभिभोटभाषानुवादबलेन संस्कृत्येह स्थापितानि- इति ध्येयं विद्भिः। ५. वा व्यस्थितो-पा०. गा० ।